________________
१७२
उत्तरज्झयणाणि-१ वीरज्ञानात् षोडशाब्द्यां व्यतीतायां द्वितीयकः । पुरे राजगृहे तिष्यगुप्तोऽजायत निह्नवः ॥१॥ आचार्यस्य वसोः शिष्यः स चतुर्दशपूर्विणः ।
आत्मप्रवादपूर्वस्यामुमालापकमध्यगात् ॥२॥ "एंगे भंते ! जीवपएसे जीवे त्ति वत्तव्वं सिया ? । नो इणढे समटे । एवं दो तिन्नि जाव दस संखेज्जा असंखेज्जा भंते ! जीवपएसा जीव त्ति वत्तव्वं सिया ? । नो इणद्वे समटे । एगपएसूणे वि णं जीवे नो जीवे त्ति वत्तव्वं सिया । से केणं अटेणं ? । जम्हा णं कसिणे पडिपुन्ने लोगागासपएसप्पमाणे जीव जीवे त्ति वत्तव्वं सिया । से तेणं अटेणमित्यादि" ॥
एतत् सूत्रमधीयानो मोहनीयोदयादयम् । अन्त्यप्रदेश एवात्मा इति विप्रत्यपद्यत ॥३॥ प्रदेशैरात्मनः शेषैर्नात्मत्वं विदितं श्रुते । अन्त्यतद्योगतस्त्वासीत् स एवात्मोच्यते ततः ।।४।। स ब्रुवन्निदमाचार्यद्याद्यो न तदाऽन्तिमः । प्रदेशोऽपि न जीव: स्यात् परिणामाविशेषतः ।।५।। आद्यादयो न ते जीवाः किन्त्वन्त्य इति तत् कुतः ? । पूरणत्वं तु सर्वत्र तुल्यमन्त्यप्रदेशवत् ॥६॥ न ह्येकेन प्रदेशेन विनाऽऽत्मत्वं प्रजायते । तथाऽप्यन्त्यप्रदेशस्य तथात्वं तु कदाग्रहः ।।७।। श्रुतेनान्त्यप्रदेशस्य जीवतोक्ता तथोदिते । प्रदेशसमुदायस्य सोक्तेति किमु संशयः ? ||८|| एवंभूतनयो भिन्नं प्रदेशौघं हि मन्यते । अवस्तुत्वेन सर्वांशमयं वस्तु हि तन्मते ॥९॥ उपचारोऽपि नान्त्यांशे तदूने वस्तुनि ह्यसौ ।
ऊने पटे पटारोपस्तन्तुमात्रे त्वसौ न हि ॥१०॥ १. एको भदन्त ! जीवप्रदेशो जीव इति वक्तव्यं स्यात् ? । नो अयमर्थः समर्थः । एवं द्वौ त्रयो यावद् दश सङ्ख्येया असङ्ख्येया भदन्त ! जीवप्रदेशा जीव इति वक्तव्यं स्यात् ? । नो अयमर्थः समर्थः । एकप्रदेशोनोऽपि जीवो नो जीव इति वक्तव्यं स्यात् । स केन अर्थेन ? । यस्मात् कृत्स्नः प्रतिपूर्णे लोकाकाशप्रदेशप्रमाणो जीवो जीव इति वक्तव्यं स्यात् । स तेन अर्थेनेत्यादि ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org