________________
तृतीयं चतुरङ्गीयाध्ययनम्
१७१ दह्यमानमदग्धं ते सिद्धान्तः किं स विस्मृतः ? । क्व केन तव दग्धेयं सङ्घाटी सोऽप्यदोऽवदत् ।।४।। "ऋजुसूत्रनयस्थानां युक्तं श्रीवीरशासने । दह्यमानमिदं दग्धं न जामालिमते पुनः ॥४२।। यत्र क्षणे हि यो देशः सङ्गाट्या दह्यतेतमाम् । स दग्ध एव तत्र स्यात् सङ्घाटी तूपचारतः" ॥४३।। इति तद्वचसा बुद्धोपजमालि समेत्य सा । प्राज्ञापयद् ढङ्कयुक्तिं स तु बोधं न भेजिवान् ।।४४।। ततः साऽन्येऽपि मुनयस्त्यक्त्वा तं वीरमाश्रिताः । जमालिरेक एवास्थात् प्रत्यनीकत्वमुद्वहन् ॥४५॥ चम्पायां श्रीजिनोपान्ते सावलेपो वदन्नयम् । क्षणान्निरुत्तरीचक्रे गौतमेन श्रुतोक्तिभिः ॥४६॥ ततो जिनेऽपि सासूयं मिथ्योक्त्या विप्रतारयन् ।
स्वं परांश्च स पर्यन्ते मृत्वा किल्बिषिकोऽभवत् ॥४७॥ उक्तं चौपपातिकाङ्गे
"से जे इमे गामागरनगरसंनिवेसेसु पव्वइया समाणा भवन्ति । तं जहा आयरियप्पडिणीया उवज्झायपडिणीया उभयपडिणीया अयसकारगा अवण्णकारगा अकित्तिकारगा बहूहिं असब्भावुब्भावणाहिं मिच्छात्ताभिणिवेसेहि य अप्पाणं परं तदुभयं च वुग्गाहेमाणा उप्पाहेमाणा तस्स ठाणस्स अणालोइयपडिक्कंता कालमासे कालं किच्चा उक्कोसेणं लंतए कप्पे देवकिदिवसिएसु देवकिव्विसियत्ताए उववत्तारो भवन्ति । तहिं तेसिं गती तेरस सागराई ठिती अणाराहगा" ॥
तादृक् स्थिति किल्बिषिकेषु भुक्त्वा च्युतः परिभ्रम्य भवाननेकान् । आराध्य जैनी स जमालिराज्ञां शिवं क्रमाद् यास्यति लब्धदृष्टिः ॥४७॥ इति प्रथमनिह्नवः ॥१॥
१. ते ये इमे ग्रामाकर-नगर-सन्निवेशेषु प्रव्रजिता: सन्तो भवन्ति । तद्यथा-आचार्य-प्रत्यनीका उपाध्यायप्रत्यनीका उभयप्रत्यनीका अयश:कारका अवर्णकारका अकीर्तिकारका बहुभिरसद्भावोद्भावनाभिर्मिथ्यात्वाभिनिवेशैश्च आत्मानं परं तदुभयं च व्युद्ग्राहमाणा उत्पाट्यमानास्तस्य स्थानस्यानालोचितप्रतिक्रान्ताः कालमासे कालं कत्वा उत्कष्टेन लान्तके कल्पे देवकिल्बिषिकेष देवकिल्बिषिकतया उपपत्तारो भवन्ति । तत्र तेषां गतिस्त्रयोदश सागरा स्थितिरनाराधका ॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org.