________________
१६८
सहस्रराजकन्याभिः प्रियाऽप्यस्य समाददे । व्रतं तदैव साऽप्यासीत् साध्वी कर्तव्यकर्मठा ॥५॥ अन्यदा स्वाम्यनुज्ञातः स श्रावस्तीं पुरीं ययौ । सतन्त्रस्तिन्दुकोद्याने संयमी समवासरत् ॥६॥ तत्र दाघज्वरार्त्योपविष्टः स्थातुमशक्नुवन् । मुनीन् बभाण संस्तारं कुरुध्वं विश्रमाय मे ||७|| तैश्चोपचक्रमे कर्तुं यावत् तावत् ज्वरातुरः । कृतो न वेति सोऽभाणीत् कृत एवेति तऽवदन् ॥८॥ विश्रमाय गतस्तत्र क्रियमाणमवेक्ष्य तम् । मिथ्यात्वोदयतश्चिन्तां चकारेति स चेतसि ||९|| असौ संस्तारकः साक्षात् क्रियते न कृतः पुनः । क्रियमाणं कृतं तस्माद् मिथ्या वीरप्ररूपणम् ॥१०॥ इहाभेदमुरीचक्रे यः कृत-क्रियमाणयोः । सतः क्रियाप्रबन्धेन सदोषव्यूहमाददे ||११||
तथाहि—
4
कृतं न क्रियमाणं स्यात् सद्भावात् सिद्धकुम्भवत् । कार्यापरिसमाप्तिर्वा क्रियावैफल्यमेव च ॥ १२॥
भवच्च दृश्यते पूर्वं दीर्घश्चास्य क्रियाक्षणः । न चाहत्य घटोत्पत्तिः क्वचिद् दृष्टाऽऽदिमे क्षणे ||१३|| तस्मान्न हि क्रियाकाले कृतं तद् व्यपदिश्यते । क्रियापरिसमाप्तौ तु कृतं स्याद् युक्तिमानतः ॥ १४॥ इति मिथ्याविकल्पाल्पीभूतदृष्टिः क्रमादसौ । सज्जः साधून् समाकार्य साक्षेपमिदमभ्यधात् ॥१५॥
“उत्पद्यमानमुत्पन्नमित्याद्याह स्म यज्जिनः । प्रमाणबाधितं मिथ्या तन्न श्रद्धत्त किं बुधाः ? ||१६|| येऽस्य श्रद्दधिरे वाक्यमेष तैर्मुमुचे न हि । सदृष्टयस्तु बोधार्थं तं सयुक्तिकमभ्यधुः ॥१७॥
उत्तरज्झयणाणि - १
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org