________________
१६९
तृतीयं चतुरङ्गीयाध्ययनम्
नाकृतं क्रियते किञ्चिदसत्त्वादभ्रपुष्पवत् । यद्यसत् क्रियते किञ्चित् खरशृङ्गं तदा कुरु ॥१८॥ सत्त्वे नित्यक्रियाद्यास्तु दोषास्त्वय्यधिकं स्थिताः । सतो भावान्तरोत्पत्त्या यदुत्पत्तिस्तु युज्यते ।।१९।। आकाशं कुरुतेत्यादि प्रतीतेरत्र दर्शनात् । असत् तु हेत्ववस्थायां कथं कार्यं तु जायते ? ॥२०॥ मृदोऽन्यथा घट इव पट: किं न हि सम्भवेत् ? । मा जायतां घटो वाऽपि स्यात् सज्जन्यं ततो मतम् ॥२१॥ प्रतिक्षणभवद्भरिविसदृक्पर्यवाश्रयः । यदि दीर्घः क्रियाकालस्तद् घटस्य किमागतम् ? ॥२२॥ अन्यारम्भे तदपर: कथमर्थो भवेत् ततः ? । शिवकादिक्षणे कुम्भः कथमादौ निरीक्ष्यताम् ? ॥२३॥ क्रियाप्रान्त्यक्षणारब्धस्तत्र दृश्यो घटस्ततः । कथं प्रागनुभाव्यः स्यादसत्त्वात् खरशृङ्गवत् ॥२४॥ न कृतं क्रियमाणं चेद् वाच्यं क्व तर्हि तत् कृतम् ? । चेत् क्रियाविगमे तत् स्यादसत्त्वात् प्राग् न किं कृतम् ? ॥२५॥ क्रियमाणक्षणोऽथाद्यस्तदन्यस्तु क्रियाक्षणः । क्रियया न तु कार्यं स्यात् क्रियामुत विनाऽपि हि ॥२६।। यद्याद्यः कथमन्यत्र समये सा परत्र तत् । न वटच्छेदनं भूयात् पलाशच्छेदकर्मणा ॥२७॥ भोः ! क्रियोपरमे कार्यं न तद्भावे इति ब्रूवन् । क्रियायास्त्वमहेतुत्वमाख्योऽध्यक्ष्यक्षतिस्ततः ॥२८|| यदि क्रियां विना कार्य व्रत-मृन्मर्दनादिकम् । व्यर्थं कर्माखिलं मोक्षाद्यर्थिनां च घटार्थिनाम् ॥२९।। क्रियाकाले ततः कार्यं क्षणमात्रस्त्वसौ यतः । दीर्घो घटक्रियाकालो भ्रम एवेति ते ततः ॥३०॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org