SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ तृतीयं चतुरङ्गीयाध्ययनम् व्याख्या - कर्मणां मनुजगतिविबन्धकानामनन्तानुबन्ध्यादीनां प्रहाण्याऽपगमेनानुपूर्व्या क्रमेण न झगित्येव तुरेवार्थे कदाचिदेव जीवाः शुद्धि कर्मक्षयरूपामनुप्राप्ता आददते स्वीकुर्वन्ति मनुष्यताम् ||७| श्रुतिदुर्लभतामाह— माणुस्सं विग्गहं लद्धुं सुई धम्मस्स दुल्लहा । जं सुच्चा पडिवज्जंति तवं खंतिमहिंसयं ॥ ८ ॥ व्याख्या - मानुष्यं विग्रहं देहं लब्ध्वाऽपि श्रुतिः श्रवणं धर्मस्य दुर्लभा । यं धर्मं श्रुत्वा प्रतिपद्यन्तेऽङ्गीकुर्वन्ति तपो द्वादशविधं क्षान्तिं क्रोधजयरूपां मानादिजयोपलक्षणं चैषा अहिंस्त्रतामहिंसनशीलतामनेन शेषव्रतोपलक्षितम् प्रथमव्रतमुक्तमेवं च तपसः क्षान्त्यादिचतुष्कस्य महाव्रतपञ्चकस्याभिधानाद् दशविधयतिधर्मोऽभिहितस्तं च श्रुत्वैव प्रतिपद्यन्ते । नाश्रुत्वा "सुच्चा जाणइ कल्लाणं" इत्याद्यागमात् ॥८॥ श्रद्धादुर्लभतामाहुः आहच्च सवणं लद्धुं सद्धा परमदुलहा । सोच्चा नेयाज्यं मग्गं बहवे परिभस्सई ॥९॥ व्याख्या - आहच्च' इति कदाचित् श्रवणं प्रस्तावाद् धर्मस्य लब्ध्वाऽपि श्रद्धा रुचिरर्थाद् धर्मविषयैव परमदुर्लभाऽतिशयदुरापा । कुत इत्याह श्रुत्वा नैयायिकं न्यायोपपन्नं मार्गं सम्यक्त्वादिमुक्तिपथमपेर्गम्यत्वात् प्राप्यापि बहवोऽनेक एव परीति सर्वप्रकारं भ्रश्यन्ति च्यवन्तेऽर्थान्यायमार्गादेव जमाल्यादिवत् । तथाहि— 'चतुर्दशसु वर्षेषु व्यतिक्रान्तेषु केवलात् । ज्ञानात् श्रीवर्धमानस्याभवत् प्रथमनिह्नवः' ॥१॥ सुतः सुदर्शनानाम्न्याः स्वसुर्वीरजिनेशितुः । जमालिरिति नामाऽभूत् क्षत्रवीरः पवित्रधीः ||२|| आर्हतीं परिणिन्येऽसौ नन्दिनीं प्रियदर्शनाम् । भुक्त्वा भोगान् क्रमाद् दीक्षां जग्राह चरमार्हतः ||३|| महोग्रभोगराजन्यक्षत्राणां पञ्चभिः शतैः । सम्पूर्णैकादशाङ्गेषु सोऽधीती क्रमशोऽजनि ||४|| १६७ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy