SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ १६६ उत्तरज्झयणाणि-१ एगया खत्तिओ होइ तओ चंडालबोक्कसो । तओ कीडपयंगो य तओ कुंथू-पिपीलिया ॥४॥ व्याख्या-एकदा मनुष्यानुरूपकर्मोदयकाले क्षत्रियो राजा भवति । ततोऽनन्तरं तको वा प्राणी चाण्डालः प्रसिद्धः, बोक्कसो वर्णान्तरभेदः । तथाऽऽह "बंभणेण सुद्दीए जाओ निसाओ त्ति, बंभणेण वेसीए जाओ अंबट्टो त्ति वुच्चई । तत्थ निसाएणं जो अंबट्ठीए जाओ सो बोक्कसो भण्णति" । अत्र क्षत्रियादिग्रहणेनोच्च-नीच-सङ्कीर्णजातय उपलक्षितास्ततो मनुष्यत्वानन्तरं कीट: पतङ्गः शलभस्ततः कुन्थुः पिपीलिका भवतीति सर्वत्र योज्यम्, शेषतिर्यगुपलक्षणं चैतत् ॥४॥ एवं भ्रमन्तस्ते किं निर्विद्यन्ते नवेत्याह एवमावट्टजोणीसु पाणिणो कम्मकिव्विसा । न निव्विज्जति संसारे सव्वडेसु व खत्तिया ॥५॥ व्याख्या-एवमुक्तन्यायेनऽऽवर्तः परिवर्तस्तदुपलक्षिता योनयो जीवोत्पत्तिस्थाननानि तासु प्राणिनः कर्मणा किल्बिषा अधमास्ते न निविद्यन्ते कदैतद्विमुक्तिरिति नोद्विजन्ते । क्वेत्याह-संसारे भवे केष्विव के न निविद्यन्ते ? इत्याह 'सव्वढेसु व त्ति' सर्वार्थेषु मनोज्ञशब्दादिषु धन-कनकादिष्विव वा क्षत्रिया राजानः ॥५॥ अनिविद्यमानास्ते किं स्युरित्याह कम्मसंगेहिं संमूढा दुक्खिया बहुवेयणा । अमाणुसासु जोणीसु विणिहम्मति पाणिणो ॥६॥ व्याख्या-कर्मभिः सङ्गाः सम्बन्धास्तैः समिति भृशं मूढा वैचित्यमुपगता दुःखिता बहुवेदनाः । अमानुषीषु नरक-तिर्यगाभियोग्यादिदेवदुर्गतियोनिषु विनिहन्यन्ते विशेषेण निपात्यन्तेऽर्थात् कर्मभिः प्राणिनः। कोऽर्थो न तत उत्तारं लभन्ते इत्यतो मनुजत्वं दुर्लभम् ।।६।। कथं तदवाप्तिरित्याह कम्माणं तु पहाणीए आणुपुव्वी कयाइ उ । जीवा सोहिमणुप्पत्ता आययंति मणुस्सयं ॥७॥ १. ब्राह्मणेन शूद्यां जातो निषाद इति, ब्राह्मणेन वैश्यायां जातोऽम्बष्ठ इत्युच्यते । तत्र निषादेन योऽम्बष्ठ्यां जातः स बोक्कसो भण्यते । Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy