SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ तृतीयं चतुरङ्गीयाध्ययनम् समिला किं युगच्छिद्रं विशेदन्याप्रयोगतः ? । सा विशेदपि तच्छिद्रं मानुषं तु सुदुर्लभम् ॥२॥ इति युगे नवमः ॥९॥ देवः कोऽप्युपलस्तम्भं चूरयित्वा महाबलः । तच्चूर्णं श्लक्ष्णमत्यन्तं चिक्षेप नलिकान्तरे ॥१॥ मेरुचूलामथारुह्य फूत्कृते तस्य पुद्गलाः । तत्क्षणात् तेऽनिलोद्धूताः सर्वे जग्मुर्दिशोदिशम् ॥२॥ कोऽपि कुर्वीत तं स्तम्भं पुनस्तैरेव पुद्गलैः । न तु मानुष्यकाद् भ्रष्टो मनुष्यो हि पुनर्भवेत् ||३|| इति परमाणौ दशमो दृष्टान्तः ॥१०॥ तत्र यथा मानुषत्वं दुर्लभं तथाऽऽह— समावन्ना ण संसारे नाणागोत्तासु जाइसु । कम्मा नाणाविहा कट्टु पुढो विस्संभिया पया ॥२॥ व्याख्या – समापन्नाः समन्तादापन्नाः प्राप्ताः 'णेत्यलङ्कारे' । क्व संसारे पुनः क्व नानागोत्रास्वनेकनामसु जातिषु क्षत्रियादिषु । कर्माणि ज्ञानावरणीयादीनि नानाविधान्यनेकप्रकाराणि कृत्वा पृथगेकैकशः । 'विस्संभिय त्ति' बिन्दोरलाक्षणिकत्वाद् विश्वभृतः क्वचित् कदाचिदुत्पत्त्या सर्वजगद्व्यापकाः । उक्तं हि— "त्थि किर सो पएसो लोए वालग्गकोडिमेत्तो वि । जम्मण-मरणाबाहा जत्थ जिएहिं न संपत्ता " ॥१॥ का: ? प्रजाः जनसमूहरूपाः ||२|| अमुमेवार्थमाह एगया देवलोएस नरएसु वि एगया । एगया आसुरं कायं अहाकम्मेहिं गच्छई ॥३॥ १६५ व्याख्या — एकदा एकस्मिन् काले देवलोकेषु नरकेष्वप्येकदा । एकदा आसुरं कायमधस्त्यादेवोपलक्षणमिदं यथाकर्मभिस्तद्गत्यनुरूपचेष्टितैर्गच्छन्ति ||३|| तथा--- १. नास्ति किल स प्रदेशो लोके वालाग्रकोटिमात्रोऽपि । जन्म-मरणाबाधा यत्र जीवैर्न सम्प्राप्ता ||१|| For Private & Personal Use Only Jain Education International 2010_02 www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy