________________
१६२
उत्तरज्झयणाणि-१ पुरमिन्द्रपुर नाम साक्षादिन्द्रपुरं किल । सुपर्वजनितानन्दमप्सरोभिर्मनोरमम् ॥१॥ इन्द्रदत्तो नृपस्तस्मिन्नासीदिन्द्र इव श्रिया । सदानभोगसन्तानप्रीतिश्चित्रं न गोत्रभित् ॥२॥ तस्य द्वाविंशतिः पत्न्यस्तज्जा द्वाविंशतिः सुताः । राज्ञी मन्त्रिसुता चैका परं दृष्टा करग्रहे ॥३॥ अन्यदा तामृतुस्नातां दृष्ट्वा राजा जगौ निजान् । केयमित्यूचिवांसस्ते त्वद्देवी देव ! मन्त्रिसूः ॥४॥ ततस्तां रजनीमेकां तया सह नृपोऽवसत् । साऽभूत् तदा पुष्पवती तद्योगात् फलवत्यभूत् ॥५॥ तद्राजागमनदिनं ते चालापा नरेशितुः । साऽथात्मगर्भसम्भूतिं पितुः सर्वमदोऽभणत् ॥६।। तत् सर्वं मन्त्रिणाऽलेखि काले तस्याः सुतोऽभवत् । सुरेन्द्रदत्त इत्याख्यः स्वजनाब्धिसुधाकरः ॥७॥ तद्दासीनां च तत्राहन्यभूद् डिम्भचतुष्टयी । अग्निकाख्यः पर्वतको बहुला सागरस्तथा ॥८॥ मन्त्री दौहित्रमात्मीयं सह जातानि तानि च । स्वगृहे वर्धयामास ज्ञापितोऽपि न भूपतिः ।।९।। अग्निको दीपयामास पर्वतोऽध्यासयन्मदे । बहुलाऽचीकरद् मायां सागरस्तमलोभयत् ॥१०॥ सुरेन्द्रदत्तस्तान् सर्वानवमत्य महामतिः ।। कलाचार्यात् कलाः सर्वा जगृहे मन्त्रिशासनात् ।।११।। द्वाविंशतिः पुनः पुत्राः शठाः पेठुर्न किञ्चन । आक्रोशन् प्राहरन् पिण्डाः पण्डितं गुरुतल्पगाः ॥१२॥ पाठार्थं भापयन्तं च तज्जनन्योऽपि पण्डितम् । अवोचन् वेत्सि किं न त्वं पुत्रान् निस्त्रिंश ! दुर्लभान् ! ॥१३।। इतश्च मथुरापुर्यां जितशत्रुनृपोऽङ्गजाम् । निर्वृति युवतीमूचे वत्से ! कीदृग् वरोऽस्तु ते ॥१४॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org