________________
१६१
तृतीयं चतुरङ्गीयाध्ययनम्
तत्पापस्य मयाऽवाप्तमेव पुष्पं नरेश्वर ! । अवन्त्यां नानुजानाति मत्प्रवेशं यदुद्धरः ॥२७४।। अथाख्यद् मूलदेवोऽपि रणेऽपि प्रणतद्विषाम् । न दण्डकारिता मेऽस्ति साम्प्रतं ते किमुच्यते ? ॥२७५।। देव्या प्रसन्नयाऽऽदिष्टं प्रमाणं तन्ममापि हि । इत्युक्त्वा बहु सत्कृत्य शुल्कलेशोऽपि नाददे ।।२७६।। ततो गतोऽचलोऽवन्त्यां विचारधवलो नृपः । श्रीविक्रमनृपात् युक्त्याऽन्वज्ञासीत् तदुपागमम् ।।२७७। ग्रामाद् निघृणशर्माऽपि विक्रमोपान्तमागतः । प्रगे द्रष्टव्यवक्त्रोऽसौ योग्यश्चोपकृतेर्मम ॥२७८।। ध्यात्वेत्यदान्महाग्रामं तमेवादृष्टसेवया । सतां स्वल्योऽपि सम्बन्धः कृपणेषु गुणायते ॥ २७९॥ इतः शासति साम्राज्यं मूलदेवे नरेश्वरे । दृष्टः पूर्णेन्दुसुस्वप्न इदं कार्पटिकोऽशृणोत् ।।२८०॥ अचिन्तयद् मयाऽनेन वीक्षाञ्चक्रे समस्तदा । स्वप्नः परं फले भेदः पृच्छाभेदादभूद् मम ॥२८१॥ पुनः पश्यामि चेत् स्वप्नं विचारं कारयामि तत् । नैमित्तिकेन साम्राज्यं तद्वन्मेऽपि यथा भवेत् ॥२८२।। तन्निपीय दधि स्त्यानं स्वपिम्युपसरो निशि । येन द्रष्टा पुनः स्वप्नं तादृशं शैत्ययोगतः ॥२८३।। ध्यात्वेति स तथाऽकार्षीदनिशं न परं वरम् । तादृशं स्वप्नमैक्षिष्ट यन्नप्पश्यालजालकम् [?] ॥२८४।। पश्येत् कार्पटिकः कदाचिदुदितं पूर्णं निशानायकं, तादृग्यत्नवशात् प्रसन्नसुमनःसाहाय्यतो वा क्वचित् । मानुष्यादिकमाप्य येन सुकृतं नो सञ्चितं हारितं;
तेनेदं समवाप्यते न हि पुनर्जन्मस्वनन्तेष्वपि ॥२८५।। इति स्वप्ने षष्ठः ॥६॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org