________________
१६०
ततोऽन्वजिज्ञपद् वीरानरेऽसौ दस्युद्भुतः । न श्रुतोऽहमनेनैतं बध्नीत श्रेष्ठिपांशनम् ॥२६०॥ मा नंष्ट्वा यास्यतीत्युक्त्वा सुधीः सौधमगाद् नृपः । अनुराजमसौ निन्ये नियन्त्र्य नृपपूरुषैः ॥२६१ ॥ तं गाढयन्त्रितं दृष्ट्वा भूपतिः कृपयाऽञ्चितः । द्रुतमुन्मोचयामास सर्वाङ्गोद्भूतवेपथुम् ॥२६२॥ उवाच राजा मा भैषीः मां जानास्यथ सोऽवदत् । को न वेत्ति भवादृक्षान् समुद्रान्तमहीभुजः ? || २६३ || उपचारवचस्त्यक्त्वा स्फुटं साधय वेत्सि चेत् । राज्ञेत्युक्ते प्रभो ! सम्यग् न वेद्मीत्यचलोऽभ्यधात् ॥ २६४॥ आह्वयद् नृपतिर्देवदत्तामन्तःपुरात् ततः ।
अप्सरा इव साऽप्यागादुपराजमलङ्कृता ॥ २६५॥ स तां दृष्ट्वा भृशं त्रेपे तयोक्तं मा त्रपस्व भोः ! । सम्पदो विपदश्चैवास्थायिन्यः प्रायशो जने ॥ २६६ ॥
उत्तरज्झयणाणि - १
तदा महामहा मूलदेवोऽयं न्यत्कृतस्त्वया । नतानेकमहीपालः सोऽधुनाऽयं नृपोऽभवत् ॥ २६७॥ तदाऽस्याग्रे त्वयाऽभाणि मामेवं व्यसनागतम् । उपाकृथाः प्रभुः सोऽयं त्वयि कृत्योपकृत्क्षणः || २६८||
प्राणसंशयमापन्नः शीर्षच्छेद्यापराधकृत् । मुक्तोऽसि हीनदीनानां वत्सलेनाधुनाऽमुना ॥ २६९॥ अपकारिणि विद्विष्टेऽप्युपकारकृतोऽत्र ये । तेषु मूर्धाभिषिक्तोऽयं श्रीविक्रमनरेश्वरः ॥ २७० ॥ स प्रत्यागतजीवाशोऽनुगृहीतोऽस्म्यहं प्रभो ! । वदन्निति प्रभोर्देवदत्तायाश्च पदेऽपतत् ॥ २७१॥ अवादीच्च पदे लग्नः सात्म्यं सदसतामिदम् । निरर्थमुपकुर्वन्त्येके पकुर्वन्ति चापरे ॥ २७२ ॥ शशाङ्कस्येव देवस्य दधतः सकलाः कलाः । तमसेव मया यत्प्रागपराद्धं क्षमस्व तत् ॥२७३॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org