________________
१५९
तृतीयं चतुरङ्गीयाध्ययनम्
चौरान्यदारिकद्रोह्यभिधानानि श्रुतेः पथम् । शास्त्रेभ्यो यान्ति नेक्ष्यन्ते तद्वाच्यान्यस्य शासने ॥२४६।। इतश्च सोऽचल: पार्श्वकूलतो द्रविणं बहु ।' उपाय॑ भृतभाण्डोऽथ, आगाद् बेन्नातटं पुरम् ।।२४७।। आवासितः पुरासन्नक्षेत्रेऽपृच्छज्जनानिति । कि नामाऽत्र नृपस्तेऽपि स्मित्वा प्रोचुस्तरामिदम् ॥२४८।। स्वयं प्रकाशवान् राजा विक्रमोऽथ दिनेश्वरः । प्रष्टव्यतां तथाऽप्यागात् तवायमिति कौतुकम् ॥२४९।। मौक्तिकस्थालमापूर्य ततोऽसौ मेदिनीश्वरम् । उपतस्थे प्रणम्यैतदनुज्ञातासनेऽविशत् ॥२५०।। राज्ञोपालक्षि दक्षेण सहस्राक्षेण सोऽचिरात् । न विवेद स राजानं मूलदेवतया परम् ॥२५१|| राज्ञाऽभाणि कुतः श्रेष्ठिन् ! पृच्छ्यते ते समागमः ? । प्रणम्य सोऽभणत् पार्श्वकूलाद् व्याघुटितोऽधुना ॥२५२॥ प्रसीदाधिकृतो देहि सद्यो भाण्डनिरूपकान् । वासरा बहवोऽभूवन् देव ! मुक्तगृहस्य मे ॥२५३॥ यद्येवं स्वयमायाता तदस्येव भवत्कृते । इत्युदीर्य नृपः पञ्चकुलोपेतोऽभ्यगाद् बहिः ॥२५४।। चन्दनागरु-मञ्जिष्ठा-दन्त-शङ्खाद्यदर्शयत् । राज्ञोऽसौ सकलं भाण्डं ततोऽपृच्छन्नरेश्वरः ॥२५५।। श्रेष्ठिन्नेतावदेवैतदोमित्यभिहितेऽमुना । अर्धशुल्कं कुरुध्वं भोः ! श्रेष्ठिनोऽस्येत्यवग् नृपः ॥२५६।। साक्षान्मम परं तोलयध्वं भाण्डकदम्बकम् । ततोऽधिकारिणो राजादेशमप्यप्रमाणयन् ॥२५७॥ ततोऽतिभाराच्चरणप्रहाराद् वंशवेधनात् । भाण्डान्तर्गतमुर्वीशः सारभाण्डमलक्षयत् ॥२५८।। विरलीकृत्य सर्वाणि तानि यावन्न्यरूपयत् । क्वचिद् हेम क्वचिन्मौक्तिकादिकं तावदक्षत ॥२५९।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org