________________
तृतीयं चतुरङ्गीयाध्ययनम्
सम्यग् गवेषयामास तमप्राप्य परं क्वचित् । क्षतमानो जनैर्निन्द्यो भृत्वा भाण्डानि सोऽचलत् ॥२१८॥ मृत्युर्वा देशमोक्षो वा मानहानाविदं द्वयम् । अङ्गीकृत्यमिति ध्यात्वा पार्श्वकूलं सुवाहनैः || २१९॥ युग्मम् इतः सोपायनं लेखं दत्त्वा श्रीविक्रमो नृपः । उपावन्तीश्वरं दूतं प्राहिणोत् प्रियवादिनम् ॥ २२०॥ नत्वोपविश्य सन्मानं भूपानुज्ञातविष्टरे । गम्भीरध्वनिना सभ्यचमत्कारमुदाहरत् ॥ २२१ ॥ देव ! श्रीविक्रमक्ष्मापः सर्वसाम्राज्यतोऽधिकम् । भवत्प्रीतिसुखं चित्ते महासौख्यं हि मन्यते ॥२२२॥ राजन् ! भवत्पुरीप्राप्तं सामान्यमपि मानवम् । राजकान्तर्गतोऽप्येष सगौरवमुदीक्षते ॥ २२३॥ आवार्धिमेदिनीनाथ ! विक्रमेणाप्यवाचि ते । प्रीतिप्रणाम इत्युक्त्वा राज्ञो लेखमथार्पयत् ॥२२४॥ नानास्वर्णमणीपूरमढौकयदुपायनम् । राजाऽपि लेखमुन्मुद्य सप्रमोदमवाचयत् ॥२२५॥ स्वस्तिवाचमिदं देवदत्तायां दैवतो महान् । प्रतिबन्धभरोऽस्माकं तत् तुभ्यं यदि रोचते ॥ २२६|| चेत् साऽप्यागन्तुकामा स्यात् सद्य एव प्रसद्य तत् । देवदत्ताप्रेषणेनाभिषिच्यः स्नेहपादपः ॥ २२७॥ वाचयित्वेति सन्तुष्टः प्रविलोक्य सभासदः । दूतमाह विशांनाथः पीयूषौघकिरा गिरा ॥ २२८ ॥ श्रीविक्रमार्कराजेन परमा प्रीतिरस्ति नः । इदं हि विश्वविज्ञातं सूर्याचन्द्रमसाविव ॥ २२९ ॥ श्रीविक्रमेति नाम्नोऽपि श्रवणेऽस्मन्मनस्तथा । सारस्यमाश्रयेद् रोमाङ्कुरान् धत्ते यथा वपुः ||२३०|| रोचते यदि युष्मभ्यं तेनेति किमु लिख्यते ? । सर्वस्वं हि तदायत्तमस्माकं सा किमुच्यते ? ॥२३१॥
Jain Education International 2010_02
For Private & Personal Use Only
१५७
www.jainelibrary.org