________________
१५६
इतश्च देवदत्ता सा मूलदेवविडम्बनम् । संनिरीक्ष्य विरक्ताऽभूदचले तुच्छचेतसि ||२०४|| रूक्षमेनमवादीच्च तवाहं किं कुलाङ्गना ? । यत् त्वं न सहसे मूलदेवं मन्मन्दिरागतम् ॥ २०५ ॥ वृथा मम कृते स्वात्मा खेदनीयस्त्वया न हि । अथ न त्वं ममेत्युक्त्वा सा जगाम नृपान्तिकम् ||२०६|| न्यासीकृतं प्रणम्यैनं पूर्वं वरममार्गयत् । मूलदेवं विनाऽऽज्ञाप्यो नान्यो मन्निलये नरः ॥२०७॥ ज्वलदूर्णायुकल्पश्चाभ्यापतन्नचलो गृहे । निर्वाय इति मे प्रार्थ्यं भूपोऽपीत्यप्रमाणयत् ॥२०८॥
उत्तरज्झयणाणि - १
आख्यच्च रोचते तुभ्यं यत् तदस्तु परं वद । अभूद् व्यतिकरः कोऽसौ सा सख्या तमचीकथत् ॥२०९||
रुष भूपती रत्नद्वितयं नगरे ह्यदः ।
चेत् तत् खलीकरोत्येष तन्निग्राह्यो ममाचलः || २१०॥
ततो निर्मानमाहूय तं रक्ताक्षोऽवदन्नृपः ।
रे ! किं त्वमेव राजाऽत्र यदेवं व्यवसायवान् ? ॥२११॥ मारणात् ते परो दण्डः को महाऽन्यायकारिणः ? । इत्युदीर्य हठात् केशेष्वग्राहयदमुं भटैः ॥ २१२ ॥
देवदत्ता निपत्याह चरणाब्जे नरेश्वरम् । मारणेऽस्ति किमेतस्य काकस्येव दुरात्मनः ? || २१३||
उद्धतारातिभूपालरक्तपानैकलम्पटः ।
कान्दिशीकेऽत्र वणिजि कथं ते निपतत्वसिः ? || २१४ ॥
मुञ्चैनं स्वयमेवासौ पापः पापेन पक्ष्यते । मक्षिकोल्लाने कुर्यान्न करी हि करोच्छ्रयम् ॥ २१५ ॥ भूपोऽप्युवाच मान्याऽसि मुक्तस्तेनैष ते गिरा । तस्मिन् नवरमानीते स्थितिरस्यात्र भाविनी ॥ २१६॥ इत्युक्ते सोऽपि राजानं प्रणम्याशु विनिर्गतः । को विश्रम्भो नदीवेग-सिंहाग्नीनां नृपस्य च ? ॥ २१७॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org