________________
१५३
तृतीयं चतुरङ्गीयाध्ययनम्
पञ्चापि समितीर्गुप्ती: सम्यक तिस्त्रोऽपि पालयन् । निःसङ्गश्चैष तत् कोऽस्मादन्यः पात्रं मुनीश्वरः ? ॥१६२॥ ईदृक्पात्रोत्तमक्षेत्रे द्रव्यबीजं प्ररोपितम् । श्रद्धाजलेन संसिक्तमनन्तगुणतां भजेत् ॥१६३॥ धन्या मनोहराहारैः क्षपकं पर्युपासते । एतत्क्षेत्रोचितैर्माषैः प्रतिलाभ्यस्त्वयं मम ॥१६४।। सर्वोऽप्यदायको ग्रामः सन्तुष्टस्तु तपस्व्यसौ । कार्येन तदिमान् दास्ये महार्यो मुन्युपग्रहः ॥१६५।। द्वित्रिर्वाऽहं पुनर्भ्रान्त्वा ग्रामे लब्ध्वाऽशनं क्वचित् । ग्रामे गन्ताऽस्मि वा दूरे मुनेरेतत् तु दुष्करम्" ॥१६६॥ इति ध्यात्वा प्रणम्यास्मै तानदात् सकलानपि । मुनिरप्यग्रहीदेतानुपयुक्तोऽर्पितान् मुदा ॥१६७॥ मूलदेवस्तदा हृष्टोऽपाठीत् पद्यदलं ह्यदः । कुल्माषा अपि देयाः स्युर्धन्यानां साधुपारणे ॥१६८॥ इतश्च शासनाध्यक्षा तादृक्तद्वृत्तरञ्जिता । गगने देवताऽभाणीद् वत्स ! ते साध्वनुष्ठितम् ॥१६९।। पश्चार्धेन महासत्त्व ! तुभ्यं यद् धीर ! रोचते । तद् याचस्व मनोऽभीष्टं मूलदेवस्ततोऽभणत् ॥१७०।। राज्यं करिसहस्रं च देवदत्तां च देहि मे ।। श्रुत्वेति देवताऽप्याख्यद् विद्धि सिद्धमदोऽचिरात् ॥१७१॥ तपस्वीदानकल्पद्रोः प्रयोजनमिदं कियत् ? । यस्मात् क्षणेन सिध्यन्ति स्वर्महोदयसम्पदः ॥१७२॥ अथ तुष्टो मुनि नत्वा ग्रामे प्राश्य च किञ्चन । चचाल पुरतो बेन्नातटोपान्तमवाप च ॥१७३।। प्रसुप्तोऽध्वगशालायां श्रान्तः स्वप्नमवैक्षत । निशाऽन्ते पूर्णशशिनं विशन्तं वदनोदरे ॥१७४।। बुद्धो देव-गुरून् ध्यात्वा तन्न कस्याप्यसाधयत् । सुस्वप्नं न फलत्येव वैपरीत्यविचारितम् ॥१७५॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org