SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १५१ तृतीयं चतुरङ्गीयाध्ययनम् दृष्ट्वा शितायुधान् वीरानात्मनः परितः स्थितान् । प्रस्तावज्ञः स वीरोऽपि सविलम्ब व्यचिन्तयत् ॥१३४।। बहवोऽमी यमाकारा अस्मि निर्बान्धवायुधः । वैरिनिर्यातनं जीवन् कर्ताऽस्मि मरणेन किम् ? ॥१३५।। सङ्ग्रामे मरणं श्लाघ्यं न तु व्यसनसङ्कटे । मृत्यावपयशःस्फूर्तिवल्लभाया ममापि च ॥१३६॥ ध्यात्वेत्याह वचो धीरं निरूप्यः कोऽस्ति मेऽधुना ? । यत् तुभ्यं रोचते तत् त्वं कुरु किं मम चिन्तया ? ॥१३७|| तन्निशम्याचलो दध्यौ नन्वयं पुरुषोत्तमः । ईदृशं धीरभाषित्वमाकृतिश्चान्यथा कुतः ! ॥१३८॥ न को वा व्यसनं प्राप्तः को वाऽत्र सततं सुखी ? । कस्य वा सुस्थिरं वित्तं विधिना खण्डितो न कः ॥१३९॥ गतिविचित्रा दैवस्य संवर्तशतकारिणी। न निन्द्यो लघुरप्यात्मा न वीक्ष्यो गुरुरेव हि ॥१४०॥ धिग् वेश्याव्यसनं दुष्टं यद्वशादीदृशो जनः । ही ! खलीक्रियमाणोऽस्तीति ध्यात्वाऽऽहाचलोऽपि तम् ॥१४१।। प्रीत्याधिक्याद् देवदत्ता परिणीताङ्गनाऽधिका । तत्रैवं चेष्टमानस्त्वं मम द्विष्टोऽसि सर्वथा ॥१४२॥ तथाऽपि ननु मुक्तोऽसि माऽऽगा एतद्गृहं पुनः । मामपि व्यसनं प्राप्तं त्वमप्येवमुपाकृथाः ॥१४३।। श्रुत्वेति दुर्मना मूलदेवस्तद्गेहतो निरैत् । धिग् विधि यद्विपाकस्य परिणामः किलेदृशः ॥ १४४॥ अत्र न्याय्यं न हि स्थातुं न्याय्यं तु विषयान्तरे । तत्रस्थेनापकर्तुश्च कर्तव्यं प्रतिविप्रियम् ॥१४५।। चिन्तयन्निति कासारे गत्वा स्नात्वाऽग्रतोऽचलत् । विपद्यपि सतां नूनं सम्पदीवोन्नतं मनः ॥१४६॥ बेन्नातटमनुश्रित्यातिक्रामन् पू:-पुरादिकम् । भट्टस्यैकस्य साहाय्याल्ललचे स महाऽटवीम् ॥१४७।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy