________________
१४७
तृतीयं चतुरङ्गीयाध्ययनम्
मूलदेवोऽवदद् भद्रे ! यः स्याद् वैदेशिको जनः । निर्धनश्च न तत्राशु प्रेम कुर्वन्ति पण्डिताः ॥८०॥ कृतमप्यत्र न प्रेम बाले ! भवति हि स्थिरम् । तद्धि कार्यवशाल्लोके न चैतन्मादृशाज्जनात् ॥८१॥ यथा पर्युषितं पुष्पं यथा क्षीणफलस्तरुः । यथा शुष्कं सरो लोके तथाऽहमिति मा मुह ॥८२॥ अथैषाऽवोचदात्मीयः परो वा न प्रवर्तते । देशः कोऽपि सतां ते हि सर्वत्राा गुणाद्भुताः ॥८३॥ निर्गतोऽब्धेः शशी वासं लेभे हीश्वरमस्तकम् ।
गुणिनो यत्र तत्रापि मान्या एव निजैर्गुणैः ॥८४॥ उक्तञ्च
"वाया सहस्समइया सिणेहनिज्झाइयं सयसहस्सं । सब्भावो सज्जणमाणुसस्स कोडिं विसेसेइ" ॥१॥ एवमादि वचोभङ्ग्या प्रतिपेदे स तद्वचः । पाशेषु हि महान् पाशः सर्वेष्वपि वराङ्गना ।।८६।। यथेक्षुदण्डे पर्वाग्राद् वर्धमानो रसः क्रमात् । प्रणयोऽपि तयोरेवमुपैधत निरन्तरम् ।।८७|| देवदत्ताऽन्यदा राज्ञः पुरो नृत्यमभावयत् । पटहं पटुविज्ञानं मूलदेवोऽप्यवादयत् ॥८८।। तत्सामग्र्या स कोऽप्यासीद् रसस्तत्र नृपो यतः । देवदत्तामुवाचेति प्रसन्नोऽहं वरं वृणु ॥८९।। अस्तु कोशे वरो ह्येष समये प्रार्थयिष्यते । इत्युदीर्य युता तेन सा प्राप निजमालयम् ॥९०॥ बोधितोऽपि तथा द्यूतं कलङ्कमिव चन्द्रमाः । मूलदेवो न तत्याज पुरुषः प्रकृति यथा ॥९१।।
१. वाचा सहस्रमतीता स्नेहावलोकनं शतसहस्रम् ।
सद्भावः सज्जनमानुषस्य कोटि विशेषयति ॥१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org