SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ १४६ Jain Education International 2010_02 कश्चिन्नूनमसौ विद्यासिद्धपुंरत्नमद्भुतम् । छन्नरूपोऽन्यथेदृक्षा वामनस्य कुतो गुणाः ? ॥६६॥ कारयामि स्फुटं रूपमनेनेति विचिन्त्य सा । पतित्वा पादयोर्मूलदेवं साञ्जसमभ्यधात् ॥६७॥ अनन्यसदृशैर्नूनं ज्ञात एव गुणैर्महान् । पुरुषस्त्वं महाराजवंशवंशैकमौक्तिकम् ॥६८॥ एतादृशे गुणोत्कर्षे रूपमप्यद्भुतं तव । यत्राकृतिस्तत्र गुणाः श्रुतेरिति विभाव्यते ॥ ६९॥ उत्तमोऽसि प्रतिज्ञातधूर्निर्वाहक्षमोऽसि च । दाक्षिण्याब्धे ! निजं रूपमाविष्कुरु तदेकदा || ७०|| बाढमुत्कण्ठितं नाथ ! त्वद्दर्शनसुधारसम् । मन्मनः पातुमात्मानं तदाविर्भावयाधुना ॥ ७१ ॥ एतन्निर्बन्धतः प्रेम्णा स्मित्वेषद् गुलिकां मुखात् । निरपास्य स्वभावस्थरूपलावण्यवानभूत् ॥७२॥ सा तं भास्करतेजस्कं रूपतर्जितमन्मथम् । मोहयन्तं मनो वीक्ष्य तुतोष नवयौवनम् ॥७३॥ यन्नावगणयाञ्चक्रे मद्वचोऽपि प्रिय ! त्वया । प्रतिपन्नैकवात्सल्यं व्यक्तमेतेन तेऽभवत् ॥७४॥ इत्युक्त्वा स्वयमभ्यक्तस्नापितोऽसौ तया ततः । सहैव तेन बुभुजे गुणगृह्या वराङ्गना ॥७५॥ अम्बराणि परीधाप्य देवदूष्यातिगानि सा । विशिष्टगोष्ठ्यामथ तमुवाचेति प्रियोचितम् ॥७६॥ त्वां विना नैव केनापि क्वचिन्मे रञ्चितं मनः । अनभ्यासेऽपि तल्लग्नं क्षणादेव दृढं त्वयि ॥७७॥ दृग्भ्यां के न वीक्ष्यन्ते वीप्सया को न भाष्यते ? | मनसो यः प्रमोदाय दृष्टः स विरलः पुमान् ॥७८॥ तस्मान्ममानुरोधेन नित्यमेहि ममालये । एनं ममार्थनालेशं नान्यथा कर्तुमर्हसि ॥ ७९ ॥ For Private & Personal Use Only उत्तरज्झयणाणि - १ www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy