________________
१४५
तृतीयं चतुरङ्गीयाध्ययनम्
अहो ! अवन्त्यां नैपुण्यमश्रावि निखिले जने । तद् गन्धर्वपुरीसौधरम्यताश्रुतिसंनिभम् ।।५२॥ सुन्दरासुन्दरत्वं यो ज्ञात्वा श्लाघ्यं प्रशंसति । तद्गुणग्रहणं श्लाघ्यमपरं मौढ्यदीपिका ॥५३॥ साऽपि सप्रश्रयं प्रोचे किमत्र थूणमीक्षितम् ? । वंशतन्त्र्योः सगर्भत्वात् सद्ध्वनिनेंति सोऽवदत् ॥५४॥ अप्रतीतौ प्रतीत्यर्थं वंशतोऽदर्शि कर्करः । विपञ्चीगुणवालश्च स्थितोऽलक्षतया क्वचित् ।।५५।। स्वयमादाय संस्कृत्य तथाऽवादयदद्भुतम् । तदा वेद्यान्तरं वेद न यथा सा पराशया ॥५६।। प्रत्यासन्नेऽभवद् राजकरेणुरतिचञ्चला । साऽपि स्थिरश्रवीभूयाघूर्णयन्निभृतं शिरः ॥५७॥ ननु प्रच्छन्नवेषोऽसौ विश्वकर्मेति हृष्टया । आगन्तुकस्तया वीणाभृत् सदानं व्यसृज्यत ॥५८।। दासीराह्वय मज्जावः सममावामुभावपि । इति सख्या कृतालापां मूलदेवोऽभ्यधत्त ताम् ।।५९।। सख्यं साप्तपदं तच्चाजनि दैवादिहावयोः । ततस्त्वयि न मे गोप्यं मयि गोप्यं च ते न हि ॥६०।। मया तदद्य कर्तव्यमभ्यङ्गादि स्वयं तव । त्वमेतदपि जानासीत्येतत् पृष्टे परोऽभ्यधात् ॥६१।। न शिक्षितं यज्जानामि परं ये तद्विशारदाः । तेषामुपनिषण्णोऽस्मि श्रुत्वेत्येषाप्यचिन्तयत् ॥६२॥ अहो ! सर्वातिशाय्यस्य सत्त्वं विश्वत्रयाद्भुतम् । न करोत्येव यद् धीमान् स्वकलाख्यापनं स्वयम् ॥१३॥ आनिन्ये चाम्पकं तैलमभ्यक्ता तेन सा तथा । सविज्ञानं यतश्चक्रे सा पराधीनमानसा ॥६४॥ अहो ! विज्ञानमेतस्यादृष्टमश्रुतमद्भुतम् । अपूर्वोऽस्य करस्पर्शः सर्वाङ्गसुखहेतुकः ॥६५॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org