________________
१४३
तृतीयं चतुरङ्गीयाध्ययनम्
अन्यान्यवर्णसंवेधरमणीयं सघोलनम् । देवदत्ता तदाकर्ण्य विस्मिताऽन्तर्व्यचिन्तयत् ।।२४।। सुधामधुरया वाण्या श्रवसी प्रीणयन्नहो ! । विद्याभृत् कोऽपि देवो वा सम्भाव्योऽयं नृरूपभाक् ॥२५॥ श्लाध्यं स्वरवदेतस्य रूपाद्यपि विलोक्यताम् । इति चेटी तयाऽऽदिष्टा तं वामनमवैक्षत ॥२६॥ तथाऽऽकृतौ तया तस्मिन्नुक्तेऽपि गुणरागिणी । देवदत्ता तमानेतुं प्राहिणोत् कुब्जिकां सखीम् ॥२७।। साऽपि प्राञ्जलिरागत्य मूलदेवमदोऽवदत् । आह्वास्त मन्मुखेन त्वां स्वामिनी नः स्ववेश्मनि ॥२८॥ गुणज्ञा सा यदि प्रौढगुणाढ्ये त्वयि रज्यति । किं विरुद्धमदस्तूर्णमागच्छोत्तिष्ठ सन्मते ! ॥२९॥ वैदग्ध्येनाथ सोऽभाणीत् सोपेक्षं मागधीमिति । पण्यस्त्रीवेश्मयानेन न प्रयोजनमस्ति मे ॥३०॥ विटानां कोटयो यत्र रमन्ते स्वैरमन्वहम् । ही ! तदुच्छिष्टभाण्डाभं न स्पृश्यं गणिकावपुः ॥३१॥ चेतो दुष्टं वचो मिष्टं स्वार्थव्यापारबन्धुरम् । यासां विगतकारुण्या वेश्यास्ताः कः प्रियीयति ? ॥३२॥ याः कुष्ठिनाऽपि संसर्गं कुर्युर्धनलवाशया । सम्बन्धमाभिर्वेश्याभिदैया रुष्टोऽपि मा विधे ! ॥३३॥ वह्नः शिखेव सौवर्णशस्त्रीव मदिरेव च । न भोक्तव्या हि वारस्त्री सर्वानर्थाङ्करैकभूः ॥३४॥ त्वं याहि कुब्जिके ! गीतसूक्तरागविनोदिनाम् । किं तया वेश्ययाऽस्माकं नीरागयतिनामिव ? ॥३५।। अथ कुब्जाऽवदत् तुष्टा माऽवमंस्था महाशय !। सा हि सत्पुरुषासक्ता वेश्याऽपि गुणरत्नभूः ॥३६।। अहम्पूर्विकया राजकुमारेष्वागतेष्वपि । निष्कलेषु न सा रागं सुधीर्धत्ते मनागपि ॥३७॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org