________________
१४२
उत्तरज्झयणाणि-१ वत्स ! प्राग् नलराजेन्द्रो भरतार्धाधिपप्रभुः । युधिष्ठिरमुखा भूपाः सुभटा दोर्मदोत्कटाः ॥१०॥ सान्तःपुरपरीवारा द्यूतव्यसनलालसाः । राज्यभ्रंशाधनषैस्ते श्रूयन्ते बाधिता भृशम् ॥११|| युग्मम् एवं स शिक्ष्यमाणोऽपि न मुञ्चति दुरोदरम् । राजेष्टमपि रुष्टस्तं स्वपुरान्निरसारयत् ॥१२।। ततः सोऽसिसखः सद्यः साहसी निरगात् पुरात् । भ्रामं भ्रामं महीं प्राप क्रमाद् वाराणसी पुरीम् ॥१३॥ तत्रान्यदा मूलदेवो विचरंस्त्रिकचत्वरे । प्रेक्षमाणः पुराश्चर्याण्यनेकानि प्रमोदभाक् ॥१४॥ क्वचिद् देवकुलेऽपश्यद् विद्यासिद्धं नरोत्तमम् । कृताञ्जलिर्ववन्देऽसौ रञ्जितानेकनागरम् ।।१५।। सिद्धस्तं सत्त्वरत्नैकनिधिमाकृतिबन्धुरम् । प्रेक्ष्य तुष्टो ददौ तस्मै गुटिकां वाञ्छितप्रदाम् ॥१६॥ ततः प्रस्थाय मार्गे तु स ग्राम-नगरादिषु । नानाकलाविनोदेन जनानाह्लादयत् क्रमात् ॥१७॥ मुखस्थितगुटीयोगाद् वामनीभूय साञ्जसम् । विशाला नगरी प्रापावन्तीविषयभूषणम् ॥१८॥ युग्मम् तस्यां प्रत्यापणं तिष्ठन् लाभयन् वणिजो बहु । व्यस्मापयत् कथा-गीतगानाद्यैः स सकौतुकान् ॥१९।। परां प्राप प्रसिद्धिं च परो नातः कलाधिकः । सर्वस्मै रोचते स्मासौ कलावानिव पार्वणः ॥२०॥ तत्रास्त्यतीवलावण्यपात्री सौन्दर्यगर्विता । देवदत्तेति वारस्त्री भुवं प्राप्तोर्वशीव सा ॥२१॥ पुरुषा निर्गुणा एव सेति तेषु न रज्यति । मधुपीव करीरेषु स शुश्रावेति लोकतः ॥२२॥ विज्ञानाशनिनैतस्याश्चूरये गर्वपर्वतम् . इति गातं प्रवत्तोऽसौ निशाऽन्ते तदगहान्तिके ॥२३॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org