SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ तृतीयं चतुरङ्गीयाध्ययनम् अथ परीषहसहनं मानुषत्वादिचतुरङ्गदुर्लभत्वालम्बने स्यादिति चतुरङ्गीयाध्ययनं व्याख्यायते । तस्येदमादिसूत्रम् चत्तारि परमंगाणि दुल्लहाणीह जंतुणो । माणुसत्तं सुई सद्धा संजमंमि य वीरियं ॥१॥ व्याख्या-चत्वारि परमाङ्गानि प्रधानहेतवः प्रक्रमाद् धर्मस्य । परमत्वं चाङ्गानां मुक्तिप्राप्तावासन्नोपकारित्वात् । दुर्लभानि दुष्प्रापाणीह संसारे जन्तोः प्राणिनस्तान्येवाहमानुषत्वम् । यतः "जम्म-जरा-मरणजले नाणाविहवाहिजलयराइन्ने । भवसायरे अपारे दुलहं खलु माणुसं जम्मं" ॥१॥ श्रुतिः श्रवणं धर्मस्यैवालस्यादिभिस्त्रयोदशभिः कारणैर्दुर्लभा । श्रद्धा श्रद्धानं धर्मस्य दुर्लभा । यदुक्तम् "कुबोह-मिच्छाभिनिवेसजोगओ कुसत्थ-पासंडिविमोहिया जणा । न सद्दहंते जिणनाहदेसियं चयंति बोहिं पुण के वि पावियं" ॥१॥ संयमे सप्तदशरूपे वीर्यं सामर्थ्य दुर्लभम् । मानुषत्वादि-दुर्लभत्वे चोल्लगादयो दश दृष्टान्तास्ते चामी "चोल्लग पासग धेने जूए रेयणे य सुमिण चक्के य । चम्म जुए परमाणू दस दिटुंता मणुयलंभे" ॥१॥ १. जन्म-जरा-मरणजले नानाविधव्याधिजलचराकीर्णे । भवसागरेऽपारे दुर्लभं खलु मानुषं जन्म ॥१॥ २. कुबोध-मिथ्याऽभिनिवेशयोगतः कुशास्त्र-पाखण्डिविमोहिता जनाः । न श्रद्दधते जिननाथदेशितं त्यजन्ति बोधि पुनः केऽपि प्राप्तम् ॥१॥ ३. चोल्लकं पाशको धान्यं द्यूतं रत्नं च स्वप्नश्चक्रं च । चर्म युगं परमाणुर्दश दृष्टान्ता मनुजलम्भे ॥१॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy