SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ उत्तरज्झयणाणि-१ संश्लाघ्य सोऽम्बडोऽत्यर्थं सुलसायै गतो गृहम् । साऽपि स्वहृदये नित्यं बभार शुचि दर्शनम् ॥१०९।। श्रुत्वेति सुलसावृत्तं दृग्दार्यकरमद्भुतम् । स्थिरीभवत सम्यक्त्वे यथा स्यात् परमं पदम् ॥११०।। इति द्वाविंशे सम्यक्त्वपरीषहे सुलसाश्राविकाकथा ॥ इत्युक्ता द्वाविंशतिपरीषहाः । नन्वेते कस्मिन् कर्मण्यवतरन्तीत्युच्यते-ज्ञानावरणे कर्मणि प्रज्ञाऽज्ञाने । अन्तरायेऽलाभः । चारित्रमोहनीये अरत्यचेल-स्त्री-नैषेधिकी-याञ्चासत्काराक्रोशरूपाः सप्त । दर्शनमोहनीये दर्शनम् । वेदनीये कर्मणि क्षुत्-तुट्-शीतोष्णदंश-चर्या-शय्या-मल-वध-रोग-तृणस्पर्शपरीषहा एकादशेति ॥४५॥ अथाध्ययनं निगमयन्नाहएए परीसहा सव्वे कासवेणं पवेइया । जे भिक्खू ण विहन्निज्जा पुट्ठो केणइ कण्हुई ॥४६॥ त्ति बेमि ॥ व्याख्या-एते परीषहाः काश्यपेन वीरेण प्रवेदिताः । यान् 'ज्ञात्वेति शेषः' भिक्षुर्न विहन्येत पराजीयेत स्पृष्टो बाधितः । केनाप्येकतरेणापि परीषहेण कस्मिंश्चिद् देशे काले वेति । इति समाप्तौ ब्रवीमीति प्राग्वत् ॥४६। (ग्रं० २२७५) इति श्रीकमलसंयमोपाध्यायविरचितायां सर्वार्थसिद्धौ श्रीउत्तराध्ययनटीकायां द्वितीयं परीषहाध्ययनं समाप्तम् ॥२॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy