SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ १३२ जाम्या वियोगदुःखार्ताऽपूर्णकामा विषादिनी । सुज्येष्ठा पूच्चकारोच्चैर्ह्रियते चेल्लणेति हा ! ||५३|| अनर्हकुलजातोऽयं कुलीनां मम नन्दिनीम् । हृत्वा यातीति रोषेण समनह्यत चेटकः ॥५४॥ तावन्मयि सति स्वामिन्नाक्षेपस्तेऽत्र कस्तमाम् ? | भूपं वैरङ्गिको वीरो निषेध्येत्यभ्यषेणयत् ॥५५॥ निर्गच्छतः सुरङ्गायाः सुलसायास्ततः सुतान् । वैरङ्गिकोऽवधीदेकबाणेनैकनिपातनात् ॥५६॥ सुरङ्गासङ्कटत्वेन यावद् द्वात्रिंशतं रथान् । आकर्षयद् रथी तावद् दूरेऽगाच्छ्रेणिको नृपः ॥५७॥ ततो वैरङ्गिको योधः पूर्णापूर्णमनोरथः । चेटकाय नरेशाय तं वृत्तान्तं न्यवेदयत् ॥५८॥ श्रेणिकोऽपि द्रुतं राजगृहं सम्प्राप्य चेल्लणाम् । गान्धर्वेण विवाहेनोपयेमे प्रेमपूरितः ॥ ५९ ॥ अथ शुश्रुवतुर्नाग-सुलसे मगधेशितुः । मुखादमङ्गलं तादृक् सर्वेषां तनुजन्मनाम् ॥६०॥ रुरुदतुर्मुक्तकण्ठं रोदसीपूरकैः स्वरैः । भूपृष्ठे च व्यलुठतामेतौ मूर्च्छाविसंस्थुलौ ॥६१॥ हा ! नौ कृतान्त ! निस्त्रिँश ! ग्रसतोऽद्य समं सुतान् । तवैकस्यापि नो जज्ञे जठरस्य विदीर्णता ॥६२॥ उत्तरज्झयणाणि - १ क्रमेण प्राणिनां मृत्युं मृत्यो ! त्वं कुरुषे स किम् ? | समं संहरतस्तांस्ते विस्मृतोऽस्मदभाग्यतः ॥६३॥ दम्पत्योः शोकपाथोधिमग्नयोरेतयोरथ । श्रेणिकोऽभययुक् तत्र समेत्येत्यब्रवीद् वचः ||६४ || मा शोचतममी भावाः सर्वे भुवि विनश्वराः । सर्वसाधारणे मृत्यौ तत् कः शोकं समुद्वहेत् ? ॥६५॥ इती वैराग्यसाराभिर्वाग्भिरेतौ विवेकिनौ । सम्बोध्याभययुक् राजा निजं धाम जगाम सः ॥६६॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy