________________
१३०
उत्तरज्झयणाणि-१ घटभेदेऽपि नाभेदि विषादैर्वज्रवन्मनः । तस्याः केवलमल्पत्वं जजल्प स्ववृषस्य सा ।।२५।। "पुण्यस्याभ्युदयो मन्दः पापस्यामन्द एव मे । ग्लानकार्ये न मे जातं स्वमिति स्वं निनिन्द सा" ॥२६॥ दृष्ट्वा सुविस्मितो देवस्तस्या भावमभङ्गरम् । प्रकटीभूय तां प्रोचे धर्मशीले ! वरं वृणु ॥२७॥ कल्याणि ! तव शक्रोऽद्य श्राद्धत्वाय सुराग्रतः । अश्लाघिष्ट ततस्तस्य परीक्षाऽर्थमिहागमम् ॥२८॥ तद्वर्णनादप्यधिकं धर्मस्थैर्य निरीक्ष्य ते । अभून्मे विस्मयः स्वान्ते विश्वादृष्टाद्भुतेक्षणात् ।।२९।। त्वय्यस्ति मे स्थिरा प्रीतिरस्तु चैषा फलेग्रहिः । अतो मत्तः कमप्यर्थं प्रार्थयस्व महाशये ! ॥३०॥ सुलसा सा द्रुतं प्राह तृष्णा काचिन्न मे हृदि । तुष्टो दयिततोषाय मह्यं देहि तनूरुहान् ॥३१॥ सोऽपि द्वात्रिंशतं तस्यै गुटिकाः प्रददौ मुदा । अब्रवीच्च क्रमादेता भक्षिताः स्युः सुतप्रदाः ॥३२॥ कार्ये जाते पुनः स्मर्य इति प्रोच्य ययौ सुरः । सुलसाऽपि ततस्तुष्टा विममर्शेति चेतसि ॥३३॥ इयतां बालकानां को जातानां मर्दिता मलम् ? । तदेकशोऽदनादस्तु द्वात्रिंशल्लक्षणः सुतः ॥३४॥ विमृश्येत्याद ताः सर्वाः सुलसा तत्प्रभावतः । द्वात्रिंशत्प्रमिता गर्भाः स्थिति तदुदरेऽभजन् ॥३५।। महाभारं हि गर्भाणामसहिष्णुः कृशाङ्गिका । सस्मार सा सुरं कायोत्सर्गमाधाय तस्थुषी ॥३६॥ स्मृतमात्रः सुरः सोऽप्यागत्य तामब्रवीदिदम् । मामस्मार्षीः कुतो हेतोः साऽप्याख्यन्निजचेष्टितम् ।।३७।। त्रिदशोऽप्याह भो भद्रे ! न चारु विहितं त्वया । अमोघशक्तयः पुत्रा भाविनो यद्यपीह ते ॥३८॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org