________________
द्वितीयं परीषहाध्ययनम्
अनुज्ञयाऽलमित्युक्त्वा मुनिर्यावत् तदागमम् । आचाम्लानि प्रत्यजानात् किं दुःसाध्यं महौजसाम् ? ॥५५।। वीक्षमाणः परान् प्रज्ञाज्ञानातिशयशालिनः । स्वस्मिंस्तु तदभावेऽपि वैक्लव्यं स तु नाकरोतु ॥५६।। द्वादशाब्दी ततोऽकार्षीदाचाम्लानि स धैर्यवान् । प्रज्ञाद्याशंसया मुक्तः कर्मक्ष्पणमात्रधीः ॥५७।। प्रज्ञाऽस्तु यदि वा माऽस्तु न त्याज्यः पठनोद्यमः । स्वाध्यायस्तु भवेदेव ध्रुवं कर्मक्षयस्ततः ॥५८।। वाचनादिप्रयत्ने ध्यानात् तत्कर्मणः क्षयात् । तदध्ययनमध्यैष्ट ततः शेषमपि श्रुतम् ॥५९।। महाश्रुतधारीभूय प्रज्ञाऽनुत्सेकवान् सुधीः । ज्ञानावलेपनिर्मुक्तो विजहार वसुन्धराम् ॥६०॥ क्रमात् केवलमवाप्य प्रतिबोध्याङ्गिनो बहून् ।
ध्यानाब्दनष्टकर्मोष्मा महोदयमगाद् मुनिः ॥६१।। इति विंशत्येकविंशत्योः प्रज्ञाऽज्ञानपरीषहयोः समुदितयोराभीरककथा ।।४३।। तथा अज्ञानाद् दर्शनेऽपि कश्चित् संशयीतेति तत्परीषहमाह
नत्थि नूणं परलोए इड्डी वावि तवस्सिणो ।
अदुवा वंचिओ मि त्ति इइ भिक्खू न चिंतए ॥४४॥ ___ व्याख्या-नास्ति नूनं परलोक ऋद्धिर्वाऽप्यामर्षोंषधादिका तपस्विनः पादरजसा प्रशमनं सर्वरुजां साधवः क्षणात् कुर्युः । त्रिभुवनविस्मयजननाद् दधुः कामांस्तृणाग्राद् वेत्यादिका च तस्या अप्यभावात् । अथवा वञ्चितोऽस्मि शिरस्तुण्डमुण्डनादिना 'भोगादिनाम्' इति गम्यम् । यतः-"तपांसि यातनाश्चित्राः संयमो भोगवञ्चना" । इत्याद्येतद् भिक्षुर्न चिन्तयेद् यतोऽहं सुखी दुःखी चेत्यादि स्वसंवेदनासिद्धत्वादयमात्मा स्वप्रत्यक्ष एव केवलिनां सर्वेऽप्यात्मानः प्रत्यक्षा एवेति । ऋद्धयोऽप्यत्र कालानुभावतो न सन्ति, तथाऽपि न तासामभावः, महाविदेहेषु सद्भावाद् भोगवञ्चनाकल्पनमप्ययुक्तम्, तेषां विपाककटुकत्वात् । यतः
"आपातमात्रमधुरा विपाककटवो विषोपमा विषयाः । अविवेकिजनाचरिता विवेकिजनवर्जिताः पापा:" ॥१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org