SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ १२६ उत्तरज्झयणाणि-१ एकैषा किमनेकेषां कुलीना दयिता भवेत् ? । तथाऽपि प्रेम कुर्वाणास्त्रपन्ते किममी न हि ! ॥४१॥ इहैव स्वार्थनाशोऽभूदेतेषां कामकाम्यया । साऽपि नेति द्वयभ्रष्टा आसन् हा ! पापचेष्टितम् ॥४२॥ रक्त-शुक्रादिनिष्यन्ने पावित्र्यलववर्जिते । स्त्रीवपुष्यपि किं रागकारणं मुग्धचेतसः ? ॥४३॥ कूटकार्षापणमिवाविचारितमनोहरम् । इदं वपुर्न रागाह विचारविषयीकृतम् ॥४४॥ रोगाभोगजराकीणे जीणे तार्ण इवास्थिरे । स्वशरीरेपि न न्याय्या स्पृहाऽन्याङ्गेषु किं पुनः ? ॥४५॥ धिग् मोहवशगं जीवं यो रतिं कुरुतेतराम् । अपावनेषु भावेषु विट्कीटक इवानिशम् ॥४६॥ अज्ञातपरमार्थत्वाद् भवन्त्वेते यथा तथा । स्थाने नातः परं स्थातुं मम तत्त्वं विजानतः ॥४७।। उद्वायैकेन गोपेन तां सर्वस्वमपि स्वकम् । तस्मै दत्त्वा ततो गत्वा क्वापि गच्छेऽभवद् व्रती ।।४८।। शिक्षाद्वयसमायुक्तस्त्रिगुप्तः समितिश्रितः । गुरूपान्ते श्रुताभ्यासी स संवेगी व्यधात् तपः ॥४९।। उत्तराध्ययनान्येष योगारूढ उपाक्रमत् । पठितुं तानि तु त्रीणि पापठीति स्म हेलया ॥५०॥ तुर्ये तस्मिन्नुपक्रान्ते कर्म ज्ञानप्रदोषजम् । उदियाय ततस्तस्याचाम्लयोः कृतयोरपि ॥५१॥ एकोऽप्यालापको नागात् पठितोऽपि निरन्तरम् । ज्ञात्वैवं गुरवोऽप्याख्यन् किं तेऽनुज्ञाप्यतामिदम् ? ॥५२॥ सोऽभ्यधादस्य को योगस्तेऽप्याहर्यावदेति न । इदमध्ययनं तावदाचाम्लान्येव सन्तु भोः ! ॥५३॥ किं त्वदो दुष्करं तेऽदोऽनुज्ञामादत्स्व भद्रक ! ।। कार्यं हि तत् तपो यस्मान्न मनो मङ्गुलं स्मरेत् ॥५४॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy