SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ १२४ उत्तरज्झयणाणि-१ भावोपकारः पुण्येषु श्रेष्ठैः श्रेष्ठतयोच्यते । श्रुतज्ञानं विना चैष न सिद्धिमधिरोहति ॥१५॥ तत् पञ्चसु श्रुतं मुक्त्वाऽन्यज्ञानानां हि मूकता । केवल्यपि श्रुतेनैव परार्थं साधयेद् यतः ॥१६॥ विवेको विनयः कीर्तिः सर्वं विद्यानिबन्धनम् । तां विना तदभावेन नरोऽपि पशुरुच्यते ॥१७॥ विद्वानेव हि सूक्तौघं युक्तं मुक्तोपमैर्गुणैः । सदानन्दो वदन् संसद्भामिन्यास्तिलकायते ॥१८॥ पश्यन्ति रसिका नेत्रानन्दस्यन्दनिबन्धनम् । बहुश्रुतमुखं सर्वे चकोराः शशिनं यथा ॥१९॥ श्रुतज्ञानाधिकः किञ्चित् क्रियाहीनोऽपि शस्यते । स्वान्यार्थाभ्यामलं नैव ज्ञानहीनः क्रियाऽधिकः ॥२०॥ उक्तञ्च "छट्ठट्ठम-दसम-दुवालसेहिं अबहुस्सुयस्स जा सोही । एत्तो य णेगगुणा सोही जिमियस्स नाणिस्स" ॥२१॥ मनस्त्यक्त्वा व्रताध्वानं कदाचिद् व्रजदुत्पथम् । किं नियन्त्रयितुं शक्यं दृढं श्रुतगुणं विना ? ॥२२॥ तेषां सुवासराः श्लाघ्यास्तेषां जन्म फलेग्रहि । अधीयन्ते श्रुतं भक्त्याऽध्यापयन्ति च ये परान् ॥२३॥ पति विना मृगाक्षीव विना ज्ञानं क्रियाऽपि हि । स्वसाध्यं साधयेन्नैव धात्री चाम्भोधरं विना ॥२४।। ये द्विषन्त्यविगानाय श्रुतज्ञानाय भास्वते । ते तामसप्रकृतयो न प्रकाशपदोचिताः" ॥२५॥ इति ध्यायन् बबन्धासौ ज्ञानद्वेषास्पदीकृतः । शर्ममर्माविधं कर्म ज्ञानावरणमुल्बणम् ॥२६।। १. षष्ठाष्टम-दशम-द्वादशैरबहुश्रुतस्य या शोधिः । एतस्माच्चानेकगुणा शोधिर्जिमितस्य ज्ञानिनः । Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org |
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy