________________
१२३
द्वितीयं परीषहाध्ययनम्
सहोदरौ मिथः प्रीतौ गङ्गाकूले वणिक्सुतौ । वैराग्याद् व्रतमादत्तां गच्छे क्वाप्यन्तिके गुरोः ॥१॥ कर्मणोपक्रमेणासीत् तयोरेको बहुश्रुतः । प्रापदाचार्यतां चापि बन्धुरल्पश्रुतोऽपरः ॥२।। शिष्याः प्रतीच्छका वाऽस्याधीयन्ते भूरिशोऽन्तिके । तद्वाचनादिदानेन विश्रामं लभते न सः ॥३॥ यथाऽहनि तथोषायां निद्रामप्येष नाश्नुते । धर्मोपदेशानुप्रेक्षा-शिक्षादौ व्यापृतोऽनिशम् ॥४॥ अल्पश्रुतस्तु भुञ्जानः शयानश्च यथेप्सितम् । सुष्ठ्वहान्यतिचक्रामानाक्रान्तोऽध्यापनादिभिः ॥५॥ तमखेदं तथाऽऽलोक्य पतत्सद्ध्यानमानसः । धृतित्यक्तो विषण्णात्मा श्रुतवान् सोऽप्यचिन्तयत् ।।६।। "सुखदं ज्ञानमाम्नातं सन्तानमिव भोगिनाम् । दुःखदं तत् पुनर्मेऽभूद् दुःस्थस्येव सुताजनुः ॥७॥ सुन्दरेणापि किं तेन येनात्मा परिखिद्यते ?। कर्णपालीत्रुटिर्यस्मात् तेन हेम्नाऽप्यलं यतः ॥८॥ श्रूयते कमलोत्पत्तिरब्धेरिव शिवं श्रुतात् । द्वयोरन्यत् परं क्षारनीरात् क्लेशाच्च नेक्ष्यते ॥९॥ शिवे ध्यानप्रधानानां फल्गुनेह श्रुतेन किम् ? । शिवं हि ज्येष्ठचक्र्याद्या विश्रुता विश्रुता ययुः ॥१०॥ श्रुतखेदवियुक्तस्य सम्यग्दृष्टेः क्रियावतः । सिद्धिर्माषतुषस्येव श्रुतमात्रान्न तु क्वचित् ॥११॥ अवर्मेण रणे वीरः स्वमिषुभ्यो रिपूत्कटे । आत्मानं शोषयिष्यामि श्रुतार्थिभ्यः कथं हहा ! ॥१२॥ पिपीलिकामुखस्थस्य गुडस्येव कथञ्चन ।। सम्भाव्यते ममैतेभ्यः क्षीणस्य न शुभा स्थितिः ॥१३।। रक्तो गुणान् विरक्तस्तु दोषानेव हि वीक्षते । इति श्रुतविरक्तात्मा नैतद् भावयति स्म सः ॥१४॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org