________________
१२२
उत्तरज्झयणाणि - १
प्रकारेणाश्वासय स्वस्थीकुर्वात्मानं मा वैक्लव्यं कृथा इत्यर्थः । ज्ञात्वा कर्मविपाकं कर्मणां कुत्सितविपाकम् ॥
इत्थं प्रज्ञाऽपकर्षमुक्त्वा तत्प्रकर्षे च नोत्सेको विधेय इति तत्प्रकर्षो व्याख्यायते - से नूणमित्यादि । 'से' इत्युपन्यासे । नूनं मया पूर्वं कर्माणि ज्ञानप्रशंसादीनि 'ज्ञानमिह विमर्शपूर्वको बोध: ' तत्फलानि कृतानि । येनाहं नाऽपि पुमानप्यभिजानामि पृष्टः केनापि कस्मिंश्चिदपीति । अह पच्छा इत्यादि । अथेत्युत्कर्षानन्तरं 'अपच्छत्ति' अपथ्यान्यायतिकटुकानि कर्माणि अज्ञानफलानि 'उइज्झंति त्ति' तिव्यत्ययादुदेष्यन्तीति प्रज्ञाप्रकर्षे नोत्सेको विधेयो यतः —
" पूर्वपुरुषसिंहानां विज्ञानातिशयसागरानन्त्यम् ।
श्रुत्वा साम्प्रतपुरुषाः कथं स्वबुद्ध्या मदं यान्ति" ? ॥ १ ॥ एवमाश्वासय प्रज्ञाऽवलेपेनावलुप्तमात्मानं स्वस्थीकुरु । शेषं प्रागवत् । अत्र कालकाचार्यकथाप्रतिबद्धसागरचन्द्रोदाहरणं ज्ञेयमिति विंशः ॥ ४१ ॥ |
प्रज्ञाया ज्ञानरूपत्वात् तद्विपक्षभूतमज्ञानपरीषहमाह— निरगंमि विरओ मेहुणाओ सुसंवुडो ।
जो सक्खं नाभिजाणामि धम्मं कल्लाणपावगं ॥४२॥
व्याख्या — निरर्थकं निष्प्रयोजनमस्मि विरतो मैथुनात् सुसंवृत इन्द्रिय- नोइन्द्रियसंवरणेन यः साक्षात् स्फुटं नाभिजानामि नावबुध्ये धर्मं वस्तुस्वभावं कल्याणं पापकं वा, यदि विरतौ कश्चिदर्थः सिध्येन्नैवं ममाज्ञानं भवेदित्याशयः ॥ ४२॥
तवोवहाणमादाय पडिमं पडिवज्जओ ।
एवं पि विहरओ मे छउमं न नियट्टई ॥४३॥
व्याख्या - तपो भद्र - महाभद्रादि उपधानमागमोपचाररूपमाचाम्लाद्यादाय चरित्वा प्रतिमां मासिक्यादिरूपां प्रतिपद्यमानस्याङ्गीकुर्वाणस्यैवमप्यास्तां सामान्यचर्यया विशेषचर्यया विहरतोऽप्रतिबद्धत्वेन विचरतो 'मे' मम छद्म ज्ञानावरणादिकर्म न निवर्तते नापैतीति भिक्षुर्न चिन्तयेदित्युत्तरगाथया सम्बन्धः । इत्थमज्ञाने वैक्लव्यं, ज्ञाने च नोत्सेकः कार्यं । यतः—
"ज्ञानं मददर्पहरं माद्यति यस्तेन तस्य को वैद्यः ? ।
अमृतं यस्य विषायति तस्य चिकित्सा कथं क्रियते " ? ॥१॥ इह प्रज्ञाया अभावे, अज्ञानस्य सद्भावे आभीरकसाधोरुदाहरणम् । तथाहि—
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org