________________
११७
द्वितीयं परीषहाध्ययनम्
तपसा कर्मणि क्षीणप्राये निर्विण्णमानसः । कायोत्सर्गं दधे रात्रौ ध्यात्वा शासनदेवताम् ॥१२॥ तया चक्रे स सौगन्ध्यपात्रदेहस्तथा क्षणात् । यथाऽभिभावयाञ्चक्रे कस्तूर्यादिपरीमलम् ।।१३।। ततो यतो यतो यात्याययुर्लोकास्ततस्ततः । भोगः साधोरहो ! कीदृक् सर्वद्रव्येश्वरातिगः ? ॥१४॥ भूयः सत्येवमुड्डाहे पुनराराध्य देवताम् । स स्वाभाविकगन्धोऽभूच्छुद्धं व्रतमपालयत् ॥१५॥ यथा तेन मलोत्पन्नो न दुर्गन्धपरीषहः ।
सेहे तथा न कर्तव्यं परैरपि तपोधनैः ॥१६॥ इत्यष्टादशपरीषहे सुनन्दमुनिकथा ॥३७।।
जल्लोपलिप्तश्चापरान् शुचीन् सक्रियमाणान् दृष्ट्वा सत्कार-पुरस्काराभ्यां स्पृहयेदतस्तत्परीषहमाह
अभिवायणमब्भुट्ठाणं सामी कुज्जा निमंतणं ।
जे ताइं पडिसेवंति न तेसिं पीहए मुणी ॥३८॥ व्याख्या-अभिवादनं शिरोनमनादि, अभ्युत्थानं ससम्भ्रममासनदानं स्वामी राजादिः कुर्याद् निमन्त्रणं भिक्षाद्यर्थं ये स्वपरयूथ्यास्तान्यभिवादनादीन्यागमनिषिद्धानि प्रतिसेवन्ते भजन्ते न तेभ्यः स्पृहयेद् मुनिः । यथाऽमी सुलब्धजन्मानो ये एवमभिवादनादिभिः सक्रियन्ते इति ॥३८॥ किञ्च
अणुक्कसाई अप्पिच्छे अन्नाएसी अलोलुए ।
रसेसु नाणुगिज्झिज्जा नाणुतप्पिज्ज पन्नवं ॥३९॥ व्याख्या-अणुकषाय्यल्पकषायी सत्काराद्यकुर्वते अन्यस्मै न कुप्यति, तत्सम्पत्तौ च न माद्यति । यतः
"पैलिमंथ महं वियाणिया जा वि य वंदण-पूयणा इहं ।
सुहमे सल्ले दुरुद्धरे इय संखाय मुणी न मज्जई" ॥१॥ १. विघ्नं महद् विजानीयाद् याऽपि च वन्दना-पूजनेह ।
सूक्ष्मं शल्यं दुरुद्धरमिति सङ्ख्याय मुनिर्न माद्यति ॥१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org