________________
११६
उत्तरज्झयणाणि - १
भावः ? दौस्थ्यविच्छायश्यामाङ्गानां शीतोष्णवातातपादिभिः परिशोषितरजोऽवगुण्ठितमलदिग्धाङ्गानामकामनिर्जरातो न कश्चिद् गुणो मम तु सम्यक् सहमानस्य महान् गुण इति मत्वा न तदपनोदाय स्नानादि कुर्याद् । यतः—
" न शक्यं निर्मलीकर्तुं गात्रं स्नानशतैरपि । अश्रान्तमेवं स्रोतोभि - रुद्गिरन्नवभिर्मलम्" ॥१॥ इति मलपरीषहसहने व्यतिरेकेण सुनन्दमुनिरुदाहरणम् । तथाहिअभूद् वणिक् सुभद्राख्यश्चम्पायां गान्धिकाग्रणीः । त्यक्तपात्राद्यभिप्रायमुदारोदूढदानधीः ॥ १ ॥ यदौषधादिकं साधुप्रायोग्यं तदवज्ञया । अमी अस्मदुपायत्ताः साधुभ्य इति पर्यदात् ॥ २॥ तस्यान्यदाऽऽपणे ग्रीष्मे मलस्वेदाविलाङ्गकाः । भैषज्यार्थं समाजग्मुः साधवो मलिनाम्बराः || ३॥ आपणस्थितचन्द्रादेरभिभाव्य परीमलम् । उदगाद् वपुषो गन्धस्तेषां तन्नासिकाविषम् ॥४॥ कदाऽपि प्राप्तदुर्गन्धः सुभद्रोऽन्तरचिन्तयत् । अभद्रमेतदेतेषां को दोषो मलधावने ? ॥५॥ कर्मबन्धो यतोऽन्येषां तन्न कुर्युस्तपोधनाः । एतन्मलापगन्धेनाहमिवान्येऽपि बन्धकाः ||६|| बद्ध्वा तत्प्रत्ययं कर्मानालोच्य मुनिदानतः । कौशाम्ब्यामिभ्यगेहेऽभूत् सुनन्दो नन्दनः सुधीः ॥७॥ अवज्ञयाऽपि पात्रेभ्यो दत्तं दानं न निष्फलम् । युवाऽसौ बुभुजे भोगान् श्रद्धां च सुकृते व्यधात् ॥८॥ गुरोर्धर्मपदं श्रुत्वा बुद्धो भेजेऽनगारिताम् । तत्कर्मोदयतो गाढदुर्गन्धाङ्गः क्रमादभूत् ||९|| येन येन पथा याति तत्र तत्र जनोऽखिलः । पलायामास दुर्गन्धाज्जैनापभ्राजनाऽभवत् ॥१०॥ अथासौ साधुभिः प्रोचे भिक्षाद्यर्थमुपाश्रयात् । मा यासीस्त्वं बहिः साधो ! वारयोड्डाहमात्मनः ॥११॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org