________________
११५
द्वितीयं परीषहाध्ययनम्
कमैकपारवश्येन सहित्वाऽप्यात्मवेदनाम । नाऽऽत्मन् ! कोऽप्यर्जितो लाभस्तदिदानीं गृहाण तम् ॥२१॥ ये शैलनिश्चलाः कर्मजयोधुक्तास्तपोधनाः । अनुद्विग्नास्तितिक्षन्ते परीषहमुपस्थितम् ॥२२॥ ते धन्या इत्यसौ भद्रः स्ववशः कुशवेदनाम् ।
सहमानो मुनिः प्राप्य केवलं शिवमासदत्" ॥२३॥ एवमन्यैरपि सोढव्यः ॥
इति सप्तदशे परीषहे भद्रसाधुकथा ॥३५।।
तृणानि मलिनान्यपि भवन्ति, तत्सम्पर्कतः स्वेदतश्च जल्लसम्भव इति मलपरीषहमाह
किलिन्नगाए मेहावी पंकेण व रएण वा ।
प्रिंसु वा परितावेणं सायं नो परिदेवए ॥३६॥ व्याख्या—क्लिन्नगात्रो निचिताङ्गो मेधावी ।
"वाहिओ वा अरोगी वा सिणाणं जो उ पत्थए।
वोक्कंतो होइ आयारो जढो हवइ संजमो" ॥१॥ इत्यागमं स्मरन्नस्नानमर्यादावर्ती । केन क्लिन्नत्वमित्याह-पडून स्वेदामलरूपेण 'रएण त्ति' रजसा वा 'प्रिंसु त्ति' ग्रीष्मे वाशब्दाच्छरदि वा परितापेन । को भावः ? परितापात् स्वेदः, स्वेदाच्च पङ्क-रजसी, ततः क्लिन्नगात्रता स्यादेवंविधश्च किं कुर्यात् ? सातं सौख्यमाश्रित्य नो परिदेवेत कथं मे मलापगमेन सुखं भावीति न प्रलपेत् ।।३६।। पुनः किं कुर्यादित्याह
वेइज्ज निज्जरापेही आरियं धम्ममणुत्तरं ।
जाव सरीरभेओ त्ति जल्लं काएण धारए ॥३७॥ व्याख्या-वेदयेत् सहेत प्रस्तावाज्जल्लजं दुःखं निर्जराऽपेक्षी कर्मक्षयाभिलाषी आर्यं धर्मं श्रुतचारित्ररूपमनुत्तरं प्रधानं प्रपन्नो 'भावयतिः' इति गम्यम् । यावच्छरीरस्य भेदो विनाशो यावज्जीवमित्यर्थस्तावज्जल्लं कठिनताऽऽपन्नं मलं कायेन धारयेत् । को
१. व्याधितो वाऽरोगी वा स्नानं यस्तु प्रार्थयेत् ।
व्युत्क्रान्तो भवत्याचारः शिथिलो भवति संयमः ॥१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org