________________
द्वितीयं परीषहाध्ययनम्
गात्रविराधनाया असम्भव इत्यचेलकत्वादीनि विशेषणानि तपस्विन इति ||३४||
ततश्च-
आयवस्स निवाएणं अउला हवइ वेयणा । एयं नच्चा न सेवंति तंतुजं तणतज्जिया ॥ ३५ ॥
व्याख्या - आतपस्य घर्मणो निपातेनातुला महती भवति वेदना पीडा एवं ज्ञात्वा न सेवन्ते तन्तुजं वस्त्रं कम्बलं वा तृणैस्तर्जिता निर्भत्सिताः । को भावः ?, यद्यपि तृणैर्विलिखिताङ्गस्यातपोत्पन्नस्वेदतः क्षतक्षारक्षेपरूपा पीडा स्यात्, तथाऽपि कर्मक्षयार्थिभिर्वस्त्राद्यगृह्णद्भिः सम्यक् सहनीया, नरके हि परवशे रौद्रतरा वेदना मयाऽनुभूतपूर्वा, तत् कियतीयम् ? । स्ववशस्य सम्यक् सहने भूयांश्च लाभः । यत उक्तम्— "असासए सरीरंमि विन्नाए जिसासणे ।
कम्मे वेयज्जमाणंमि लाभो तत्थहियासणं" ॥१॥
जिनकल्पापेक्षं चैतत्, स्थविरास्तु सापेक्षसंयमत्वाद् वस्त्रादि सेवन्तेऽपीति तृणपरीषहः सोढव्यो भद्रसाधुवत् । तथाहि—
श्रावस्त्यां क्षितिपालस्य जितशत्रोस्तनूद्भवः ।
भद्रः प्रकृत्या भद्राख्योऽभवद् धर्माभिमुख्यवान् ॥१॥ सोऽन्यदा सुन्दराचार्यान्निर्वेदजनकं वचः । श्रुत्वा सञ्जातसंवेगः पितॄन् प्राञ्जलिरभ्यधात् ॥२॥
" समुदायकृतं कर्म समुदायेन भुज्यते । त्वरध्वं मद्वमुत्र हितसिद्धयै व्रतग्रहे ॥ ३ ॥
मया नूनमुपादेया प्रव्रज्या सविधे गुरोः । अयमायुर्लवः स्वार्थसाधकः क्वाप्यते पुनः ? ॥४॥ अहं तपोवने यामि भवन्तस्तु गृहाश्रमे । स्वभावसिद्धता हानिरेवं प्रेम्णः कुटुम्बके ॥५॥ अन्योन्यमवियोगेन निर्वृत्तिः समवाप्यते । मैतद् वचोऽवमन्यध्वमेकान्तहितमात्मनः ॥६॥
१. अशाश्वते शरीरे विज्ञाते जिनशासने ।
कर्मणि वेद्यमाने लाभस्तत्राध्यासनम् ॥१॥
११३
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org