SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ ११२ उत्तरज्झयणाणि-१ भवितव्यं यदि प्रान्ते कुध्यानं तद् भविष्यति । भावितार्हन्मतस्येदं न मे सम्भाव्यते परम् ॥३६।। पितृभ्यामभ्यधाय्येवं त्वं प्राप्तो भूरियाचितैः । अस्माकमुपरोधेन चिकित्सां वत्स ! कारय ॥३७।। परीश्वरोऽपि सप्रेमोवाच मुञ्च कदाग्रहम् । त्वामारोग्यगुणप्राज्यं पौरोहित्यं वरीयति ॥३८।। पौराद्यैरागृहीतोऽपि भृशमेवं द्विजात्मजः । न मन्यते प्रतीकारं दिधक्षन्नान्तरा रुजः ॥३९।। ततस्तद्दाढ्यमुदितौ सुरावाविर्बभूवतुः । अहो ! धैर्यमहो ! धैर्यं तव स्वर्णाचलातिगम् ॥४०॥ नन्दानन्दन ! धन्यस्त्वमनिन्द्यं तव जीवितम् । यस्य ते कुरुते श्लाघाममराधीश्वरोऽपि हि ॥४१॥ इति प्रशंसामासूत्र्य नीरुजं तं द्विजाङ्गजम् । विधाय विबुधौ बुद्धौ विबुधावासमीयतुः ॥४२॥ पित्रादयस्तथा दा_धर्ममाहात्म्यदर्शनात् । प्रतिबुद्धा अकाङ्क्षन्त दीक्षाधर्ममुपासितुम् ॥४३।। तदादि विप्रभूरेष आरोग्यद्विज इत्यभूत् । नाम्ना भूम्ना हि विख्यातिलॊके लोककृताऽभवत् ॥४४।। नियूंढाभिग्रहः सम्यक् क्रमादात्तमहाव्रतः । निःसङ्गरङ्गो निष्कर्मा परमानन्दभागभूत् ॥४५।। इति षोडशे रोगपरीषहे आरोग्यद्विजकथा ॥३३॥ रोगपीडितस्य शयनादिषु कर्कशतृणादिस्पर्शः स्यादिति तत्परीषहमाह अचेलगस्स लूहस्स संजयस्स तवस्सिणो । तणेसु सुयमाणस्स हुज्जा गायविराहणा ॥३४॥ व्याख्या-अचेलकस्य रूक्षस्य संयतस्य तपस्विनस्तृणेषु दर्भादिषु शयानस्योपलक्षणादासितस्य भवेद् गात्रविराधना अङ्गव्याबाधा । मा भूत् सचेलस्य तृणस्पर्शासम्भवेन, अरूक्षस्य तत्सम्भवेऽपि स्निग्धत्वेन, असंयतस्य शुषिरहरिततृणग्रहणेन तथा Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy