________________
११०
उत्तरज्झयणाणि-१ अवश्यं पल्लवग्राही भवत्येव हि पादपः । छिन्नोऽपि बीजसद्भावे हेतुमाप्य घनादिकम् ॥१०॥
ओषधैर्वारितोऽप्युच्चैयाधिर्दुष्कर्मबीजवान् । प्राप्य किञ्चिदपथ्यादि प्राणिनां पुनरेधते ॥११॥ ततश्च विदुषा जैनो धर्मः शर्मनिबन्धनम् । विधातव्यः प्रयत्नेन द्विषता कर्मवैशसम्" ॥१२॥ इति श्रुत्वोरुसंवेगादादाय गहिधर्मिताम् । न्यवर्ततां मुनि नत्वा तौ सुसाधुक्रियोन्मुखौ ॥१३।। दृढव्रतधरौ तत्त्ववेदिनौ सुकृताद्भुतौ । बभूवतुरमू तत्र पुत्रस्त्विदमचिन्तयत् ॥१४॥ रोद्धं शक्यः पयोराशिनिर्मर्यादमुपाव्रजन् । न तु कर्मपरीणामः फलाभिमुखतां गतः ॥१५॥
औषधैर्विविधैः पुष्टमिदं खलशरीरकम् । अवसाने पतत्येव निःसारं जीर्णपर्णवत् ॥१६॥ तदस्य वह्मणोऽवश्यपातिनः पाप्मनः कृते । कस्ताम्यत्यौषधैरतिहेतुभिः फलसंशयैः ? ॥१७|| परत्रेह च शर्मार्थं त्यक्त्वा धर्ममयौषधम् ।। न काष्ठौषधमाधास्येऽभ्यग्रहीदिति स स्फुटम् ॥१८॥ विबाधायामपि रुजां न व्यषीदन्मनागपि ।
सम्पद्यापदि वा यस्माद् विकारो न सतां भवेत् ।।१९।। उक्तञ्च
उदेति सविता ताम्रस्ताम्र एवास्तमेति च । सम्पत्तौ च विपत्तौ च महतामेकरूपता ॥२०॥ जीवितव्यमहो ! श्लाघ्यं देवगुप्ततनूभुवः । सावद्यां यश्चिकित्सां हि मनसाऽपि न काङ्क्षति ॥२१॥ इत्यन्यदाऽकरोच्छक्र: प्रशंसामयस्य संसदि । तां सेहिरे सुराः सन्तस्ते हि सत्पक्षपातिनः ॥२२॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org