________________
१०८
उत्तरज्झयणाणि-१ नत्वा किमन्तरायं मे कर्म क्षीणं पुरातनम् ? । इति पप्रच्छ ढण्ढर्षिस्त्रिलोकीशस्तमभ्यधात् ॥६३।। परप्रत्ययजो लाभः क्षीणं नो कर्म तत् तव । कैशवीं भक्तिमालोक्य यतो भैक्ष्यमदत्त सः ॥६४।। कृष्णलब्धिरियं तेन ढण्ढोऽथान्तर्व्यचिन्तयत् । अहो ! प्राक्कर्मदौरात्म्यं दुर्भेद्यं तपसाऽपि हि ॥६५।। केचित् तपस्विनः केचित् पारितान्नास्तपोधनाः । आत्मलब्धिव्रतश्चाहं ततस्त्याज्या इमे मम ॥६६॥ श्रुतोक्तविधिनाऽऽहारत्यागः स्थाने महात्मनाम् । न त्वभिग्रहभङ्गेन कुक्षिगर्ताप्रपूरणम् ॥६७|| ध्यात्वेति स्थण्डिलं गत्वा रक्षया तानचूरयत् । समाधिपरिवृद्ध्या च क्षपकश्रेणिमारुहत् ॥६८|| चत्वारि घात्यकर्माणि स निःशेषाण्यचूर्णयत् ।
प्रापच्च केवलज्ञानं श्रीढण्ढणमहामुनिः ॥६९।। इत्यलाभे ढण्ढणमुनिकथा ॥३१॥ अलाभात् प्रान्ताशिनो रोगा अपि समुत्पद्येरन्निति तत्परीषहमाह
नच्चा उप्पइअं दुक्खं वेयणाए दुहट्टिए ।
अदीणो ठावए पन्नं पुट्ठो तत्थहिआसए ॥३२॥ व्याख्या-ज्ञात्वोत्पतितमुद्भूतं दुःखं ज्वारदिरोगं वेदनयाऽङ्गस्फोटादिरूपया दुःखेनार्तितः पीडितोऽदीनोऽविक्लवः स्थापयेच्चलन्ती स्थिरीकुर्यात् प्रज्ञां स्वकर्मफलमेवेदमिति तत्त्वधियं 'अपेर्गम्यत्वात्' स्पृष्टोऽपि व्याप्तोऽपि राजयक्ष्मादिभिः । तत्रेति रोगव्यापे सत्यध्यासीताधिसहेत प्रक्रमाद् रोगजं दुःखमिति ॥३२।। किञ्च
तेगिच्छं नाभिनंदिज्जा संचिक्खत्तगवेसए ।
एयं खु तस्स सामन्नं जं न कुज्जा न कारवे ॥३३॥ व्याख्या-चिकित्सां रोगप्रतीकाररूपां नाभिनन्देन्नानुमन्येतातो दूरापास्ते करणकारणे सञ्चिक्षेत समाधिना तिष्ठेन्न कूजितादि कुर्यात् चारित्रात्मगवेषकः । एतद् वक्ष्य
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org