________________
१०७
द्वितीयं परीषहाध्ययनम्
अष्टादशसहस्रेषु साधु साधुषु सम्प्रति । यादृशो दुष्कराधाता ढण्ढणो नेदृशः परः ॥४९।। सर्वातिशायिता नाथ ! किमादिष्टाऽस्य कथ्यताम् । इत्यर्द्धचक्रिणा पृष्टे धर्मचक्र्यप्यदोऽवदत् ॥५०॥ परलब्धं न भुङ्क्तेऽसौ स्वयं न लभतेतराम् । पुरी भ्रमंस्तपः कुर्वन् न सीदति विषीदति ।।५१।। पाखण्ड्येष किमायाति पैशाच्यपिशुनाकृतिः । दायकाख्यातमित्येष पीयूषमिव मन्यते ॥५२॥ मलीमस ! गलच्छौचं प्रविशन्नसि कि मुधा ? । इति चेटीवचांस्येव कर्मोषधतयाऽग्रहीत् ॥५३॥ त्वत्सुतो मम शिष्योऽपि भिक्षामप्राप्नुवन्नपि । न रोषं नारतिं धत्ते सोऽयमुत्कृष्यते ततः ॥५४॥ क्वासौ नत्वा तमात्मानं निष्पक्षं विदधे प्रभो ! । उवाचेति हरिप्रश्नेऽर्हन् द्रष्टाऽसि पुरीं विशन् ।।५५।। उत्तालो हरिरुत्तस्थौ प्रविशंश्च निजां पुरीम् । ददर्श च मुनि भिक्षामटन्तं तं महाशयम् ॥५६॥ दूरादेव विलोक्यैनमुच्छसद्रोमकण्टकः । अवरुह्य करिस्कन्धाद् द्राग् गत्वा प्रणनाम तम् ॥५७।। तुष्टाव च जगन्नाथः सप्रकाशं स्वयं जिनः । त्वां स्तौति त्वन्नुतौ कस्य क्षमताऽन्यस्य देहिनः ? ||५८|| एनं हरिनतं सर्वे प्रणेमुः पृथिवीश्वराः । कश्चिदिभ्यो गवाक्षस्थस्तदालोक्य व्यचिन्तयत् ॥५९।। महात्मा कोऽपि नन्वेष सर्वातिशयमन्दिरम् । दानार्हो यदुपेन्द्रेण पूज्यपूज्येन पूज्यते ॥६०॥ गतेऽथ पुरतः कृष्णे गृहं तस्यैव दैवतः । विवेश पेशलस्वान्तस्तं चेभ्यः प्रत्यलाभयत् ॥६१।। उपयुज्य समादाय सिंहकेशरमोदकान् । नतवामभुजो भाराज्जगामोपजिनं क्रमात् ॥६२।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org