________________
१०५
द्वितीयं परीषहाध्ययनम्
यावन्न हि सुधापानं तावदेव विषापदः । प्रभो ! श्रुते भवद्वाक्ये कुतो भावारिविप्लवः ? ।।२१।। कृपां धेहि व्रतं देहि विलम्बन कृतं विभो ! । द्रुतं मोहमतं जेता त्वत्प्रसादमहाबलः ॥२२॥ आपृच्छ्य कृष्णमन्यांश्च निर्बन्धेनार्हतः करे । दीक्षां कक्षीचकारासौ भवक्लेशक्लमापहम् ॥२३।। सन्तो यदाद्रियन्ते हि गार्हस्थ्यं व्रतमेव च ।। तत्रैव कुर्वते दायमित्यसौ सुव्रतोऽभवत् ।।२४।। स्वान्यनिर्भेदचेतस्कस्तीने तपसि सोद्यमः । सम्यक् श्रुतमधीयानो विजहारार्हता समम् ॥२५॥ नन्दनो वासुदेवस्य विनेयोऽरिष्टनेमिनः । ज्ञान-क्रियोद्यतश्चेति विश्वेज्यत्वमियाय सः ॥२६।। उदीर्णमन्यदा किञ्चिदस्य कर्म तथाविधम् । न येन लभते भिक्षामिभ्यदातृकुलेष्वपि ॥२७।। कटरे ! कर्मवैचित्र्यं ढण्ढेन सह गच्छतः । मुनेरन्यस्य यद् भिक्षाप्रतिघातोऽभवद् ध्रुवम् ॥२८॥ श्रीनेमिर्भगवांस्तेनालाभव्यतिकरेऽन्यदा । पृष्टेऽभाषिष्ट सुस्पष्टं तत्पूर्वादृष्टसञ्चयम् ॥२९॥ मगधाविषये धान्यपूरणग्रामसंस्थितः । कृषिपारासरो नाम विप्रसूः समजायत ॥३०॥ कृषिकर्मकलादक्ष इत्यसौ भूमिजानिना । तुरङ्गमयवक्षेत्रकारणे विन्ययुज्यत ॥३१॥ राजक्षेत्रसमीपस्थं तेन क्षेत्रं निजं कृतम् । राजक्षेत्रेषु वाह्यन्ते हलानि खलु षट्शतम् ॥३२॥ अन्यदा मध्यमायाते भानौ वृत्तेऽशनक्षणे । उक्षेषु न्यकृतग्रीवं चक्रमत्सु शनैः क्षुधा ॥३३।। कृषीवलपुरन्ध्रीभिः पक्त्वाऽऽनीते च भोजने । तदर्थित्वेन सीरेभ्य उक्षांस्तेषु मुमुक्षुषु ॥३४॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org