________________
द्वितीयं परीषहाध्ययनम्
१०३ याञ्चाप्रवृत्तश्च कदाचिल्लाभान्तरायादिना न लभेतेत्यलाभपरीषहमाह
परेसु घासमेसिज्जा भोयणे परिणिट्ठिए ।
लद्धे पिंडे अलद्धे वा नाणुतप्पिज्ज संजए ॥३०॥ व्याख्या–परेषु गृहस्थेषु ग्रासं कवलमेषयेद् गवेषयेद्, भोजने परिनिष्ठिते सिद्ध सति, प्रथमगमने मा भूत् तदर्थं पाकादिप्रवृत्तिः । ततो लब्धे प्राप्ते स्वल्पेऽनिष्टे वा पिण्डे अलब्धे वा नानुतप्येत न पश्चात्तापं कुर्यात् संयतो यथाऽहो ! अहमधन्यो यन्न किञ्चिदनिष्टं वा लभे इत्युपलक्षणाल्लब्धे पर्याप्ते शुभे वा लब्धिमानहमिति न हृष्येत् ॥३०॥ किमालम्ब्येत्याह
अज्जेवाहं न लब्भामि अवि लाभो सुए सिया ।
जो एवं पडिसंविक्खे अलाभो तं न तज्जए ॥३१॥ व्याख्या-अद्यैवाहं न लभे । अपिः सम्भाव्यते एतल्लाभः श्व आगामिदिने स्यादुपलक्षणादन्येधुर्वा । य एवं प्रतिसमीक्षेतादीनमनाः सन्नालोचयेदलाभोऽलाभपरीषहस्तं न तर्जयेन्नाभिभवेदित्ययं वाऽलाभपरीषहः सह्यो ढण्ढणयतिवत् । तथाहि
प्रतिबिम्बोऽमरावत्या अस्ति द्वारवती पुरी । चरित्रैर्धवलः कृष्णोऽर्द्धचक्री तत्र भूपतिः ॥१॥ ढण्ढणेत्याख्यया ख्यातः सुभगस्तस्य नन्दनः । बन्धुत्वादिव कामस्य रूपसीम्नः परं पदम् ॥२॥ कलाकलापपूर्णेन्दुर्लावण्यामृतवारिधिः । निधिः शौर्यादिभावानां न परः कोऽपि तत्समः ।।३।। वल्लभोऽतीव तातस्य वय:प्राप्तो वराङ्गनाः । उद्वाह्य विषयाभोगमभुक्ताभिरभङ्गुरम् ।।४।। इतश्च नीलाश्मरुचिविलीनाशेषदूषणः । समवासरदुत्तुङ्गे नेमी रैवतकाचले ॥५॥ पिण्डीभूततदङ्गार्चिरुद्वीचियमुनाजले । निमग्न इव शैलोऽसौ तदा दक्षैरलक्ष्यत ॥६।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org