________________
१०२
उत्तरज्झयणाणि-१ तदस्य भैक्ष्यदानेन पापध्वंसक्षमौजसः । कुर्वे विगतदौर्गत्यमात्मानमहमञ्जसा ॥४५।। ध्यात्वेत्यञ्जलिसम्बन्धभालावनतमस्तकः । नत्वाऽन्न-पानमादायोपतस्थे मुनिपुङ्गवम् ॥४६।। विज्ञाय सर्वथा शुद्धि तत् प्रत्यादत्त साधुराट् । तदादानेन देवायू रथिनाथोऽनुबद्धवान् ॥४७॥ कुरङ्गोऽपि मुनौ गुर्वीः स्नेहोर्मीरुद्गिरन्निव । पश्यन्नेकाग्रया दृष्ट्याऽचिन्तयत् साधु-शिल्पिनौ ॥४८।। "बलर्षिर्ननु धन्याऽसावूर्जत्तेजा महातपाः । ततोऽप्यसौ रथी धन्यो भैक्ष्यं गृह्णात्यसौ यतः ॥४९।। कृतार्थं मानुजं जन्म कृतार्थाऽस्य विवेकिता । नूनं रथी कृतार्थोऽसौ दानवानत्र यन्मुनौ ॥५०॥ मन्दभाग्योऽस्म्यहं पूर्वार्जितमायादिकर्मणा । तैरचीं योनिमाप्तोऽस्मि यत्र नाप्तोऽस्मि दानिताम् ॥५१॥ कदाचिद् द्युगुमाङ्करः किं भूयाद् दुर्गतौकसि ? । पात्रदानफलं लभ्यमभाग्येन कथं मया ? ॥५२॥ पुण्यं वन्दनमात्रं मे सदानं तद् रथीशितः । न वन्दनं न वा दानं येषां ते ननु कीदृशः ?" ॥३॥ अत्रान्तरे महावातप्रहतः स महीरुहः । निपपात तदाघातात् ते त्रयोऽपि मृतिं गताः ॥५४॥ तपसा पात्रदानेन साधुदानप्रमोदतः । अभूवन् पञ्चमे कल्पे ते त्रयोऽपि दिवौकसः ।।५।। शतं समास्तपस्तेपे सेहे याञ्चापरीषहम् । तेन दिव्यप्रभारूपोऽभूद् बलर्षिः सुरोत्तमः ॥५६।। गृह्णन्तु व्रतमुज्ज्वलेन मनसा कुर्वन्तु तीव्र तपः, शक्तिश्चेत् तपसो न तद्वति तदा दानं ददत्वद्भुतम् । तत्राप्यक्षमताऽस्ति चेद् विदधतां दानानुमोदं तदा,
वीक्षन्तां बलसाधु-शिल्पि-हरिणास्तद्योगतो द्यां गताः ॥५७।। इति चतुर्दशे याञ्चापरीषहे बलभद्रकथा ॥२९॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org