SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ १०० उत्तरज्झयणाणि-१ वीक्ष्य तानथ तद्भावं ज्ञात्वाऽपि मुनिपुङ्गवः । न चुक्षुभे निजध्यानात् स्थानादिव सुराचलः ॥१७|| इतश्च बलराजर्षिपर्युपास्तिमनस्विना । सिद्धार्थद्युसदाऽऽगत्य सिंहरूपाणि चक्रिरे ॥१८॥ करालव्यात्तवदनाः पिङ्गाक्षा नखरोद्धराः । उत्पुच्छाः समदृश्यन्त परितस्ते मुनेनूपैः ।।१९।। हरीन् पर:शतान् वीक्ष्य तैरचिन्ति भयद्रुतैः । एते तु कवलीकर्तुं क्षणात् कालमपि क्षमाः ॥२०॥ दृष्ट्वा भीष्मं तदाकारं श्रुत्वा तन्नादमुद्धरम् । द्विरदास्तुरगाश्चक्रुर्मूत्रयन्तः पलायनम् ॥२१॥ पलायमानयानास्ते विज्ञातमुनिशक्तयः । विनिवृत्ता दिशं भेजुः प्रवातेरिततूलवत् ।।२२।। अयं नरः सिंह एव सिंहसंसद्व्यवस्थितः । इति चक्रे तदाद्यस्य नरसिंह इति प्रथा ।।२३।। बलर्योगमाहात्म्यान्मृग-व्याघ्र-द्विपादयः । गतवैराः परं शान्ता धर्मिणस्तमुपासते ॥२४॥ मुनेर्धर्मकथाऽऽक्षिप्ता: केऽपि भद्रकतां गताः । सम्यक्त्वमपरे देशविरतिं च प्रपेदिरे ।।२५।। तिर्यक्कलेवरेणान्ये ज्ञात्वा दुःसाध्यमिताम् । प्रपद्यानशनं सद्यस्तिर्यञ्चो धुसदोऽभवन् ॥२६।। मांसाशिनोऽपि तिर्यञ्चस्तदाऽऽसन् प्रासुकाशिनः । अहो ! स्वान्यार्थकर्तृत्वं सुचीर्णतपसो मुनेः ॥२७॥ युवैकस्तत्र सारङ्गस्तत्पौर्वभविकः सुहत् । जाति स्मृत्वाऽभवद् भक्त्या तत्सेवारसिकोऽनिशम् ॥२८॥ यत्र यत्र स भिक्षायै समितः पथि गच्छति । तत्र तत्राग्रतो याति पार्श्वतः पृष्ठतोऽथवा ॥२९॥ परिघायितदोर्दण्डं कपाटायितवक्षसम् ।। नीलोत्पलेक्षणं वृत्तकान्तिमद्वदनेन्दुकम् ॥३०॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy