SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ द्वितीयं परीषहाध्ययनम् केवलालोकविज्ञातक्षणेनारिष्टनेमिना । प्रेषित श्रमणस्यान्ते श्रामण्यं प्रत्यपद्यत ||३|| गार्हस्थ्यसुकुमालोऽपि तथा काठिन्यमागमत् । तृणाय मन्यते स्मायं यथा सर्वपरीषहान् ॥४॥ स्त्रीः शस्त्रीरिव साभोगान् भोगान् भोगानिवौरगान् । चिन्तयंस्तदभिष्वङ्गं मनसाऽपि न सोऽकरोत् ॥५॥ द्वारिकेवाखिलं वस्तु भवाम्भोधौ चलाचलम् । ज्ञात्वाऽऽत्मस्थिरताकाङ्क्षी स तेपे दुस्तपं तपः ||६|| तुङ्गनामनि शैलेऽसौ तरूत्करमनोहरे । अधिरुह्य तपः कुर्वंस्ततानाहिततानवम् ॥७॥ सप्तसप्तमिकां चक्रेऽप्रतिमः प्रतिमामसौ । यस्मामेकादिसप्तान्ताः क्रमादन्नाम्बुदातयाः ॥८॥ दिनान्येकोनपञ्चाशदस्यां षण्णवतिश्रितम् । भिक्षाशतं यथासूत्रं दान्त एषोऽत्यवाहयत् ॥९॥ अष्टाष्टम्यादिकामेवं चकार प्रतिमात्रयीम् । तत्सङ्ख्याया विधिः सर्वः सप्तसप्तमिकोपमः ||१०|| पक्ष-मासोपवासादिर्विकृष्टस्तपसञ्चयः । तेनाचर्यत यं श्रुत्वा विश्वं भवति विस्मितम् ॥११॥ तृणहारि-वनच्छेदि-वार्द्धकिभ्यः कदाचन । कुरुते पारणां तत्रैषणीयाहारलाभतः ॥१२॥ दिव्यरूपो महातेजाः साम्राज्योचितलक्षणः । तपांसि तप्यमानोऽसौ प्रथयामास सर्वतः ॥१३॥ क्षुब्धा श्रुत्वा तमुर्वीशा अधिस्वान्तमचिन्तयन् । अस्मद्राज्यस्पृहः कोऽपि तपश्चरति निश्चितम् ॥१४॥ तपसा हि सुचीर्णेन पदादिन्द्रोऽपि पात्यते । अनागतं तदाधेयः कोऽप्युपायस्तपश्छिदे ॥१५॥ यस्यैवं तापसी शक्तिः स उपेक्ष्यः कथं भवेत् ? । संनह्येत्यखिलास्तेऽपि शस्त्रैरुपतदागमन् ॥१६॥ For Private & Personal Use Only Jain Education International 2010_02 ९९ www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy