________________
उत्तरज्झयणाणि-१ इति भावयतस्तस्य षण्मासा व्यतिचक्रमुः । निराहारस्य तत्रैव सहिष्णोस्तस्थुषः पुरे ॥३७॥ बभ्रामानुगृहं नित्यं सेहे पामरदुर्वचः । क्षमयाऽक्षपयत् सर्वं क्रमाद् दुष्कर्म तादृशम् ॥३८।। केवलं प्राप्य निष्कर्मा स महानन्दभागभूत् ।
परैरप्येवमाक्रोश-वधौ सह्यौ परीषहौ ॥३९॥ इत्याक्रोश-वधपरीषहद्वये दृढप्रहारिकथा ॥२७॥ एवं परीषहसहनक्षमस्यापि मुनेासादि याचितमेव भवतीति याञ्चापरीषहमाह
दुक्करं खलु भो निच्चं अणगारस्स भिक्खुणो ।
सव्वं से जाइयं होइ नत्थि किंचि अजाइयं ॥२८॥ व्याख्या-दुष्करं दुरनुष्ठानं खलु निश्चयेन 'भो इत्यामन्त्रणे' नित्यमनगारस्य भिक्षोर्यत्सर्वमाहारोपकरणादि 'से' तस्य याचितं भवति । नास्ति किञ्चिद् दन्तशोधनाद्यप्ययाचितमिति ॥२८॥ ततश्च
गोयरग्गपविट्ठस्स पाणी नो सुप्पसारए ।
सेओ आगारवासो त्ति इइ भिक्खू न चिंतए ॥२९॥ व्याख्या-गोचरः परिचितापरिचिताविशेषेण साधोभिक्षाभ्रमणं तस्याग्रमेषणाशुद्धग्राहितया प्रधानं गोचराग्रं तत्प्रविष्टस्य पाणिर्हस्तो नो नैव सुप्रसारकः सुखप्रसार्यः । पिण्डाद्यर्थं कथं हि निरुपकारिणा प्रत्यहं परः प्रणयितुं शक्यः ? । इतिशब्दस्यात्र योजनादतो हेतोः श्रेयान् प्रशस्योऽगारवासो गार्हस्थ्यं, तत्र हि न कश्चिद् याच्यः, स्वभुजार्जितं वाऽर्थिभ्यः संविभज्य भुज्यत इत्येतद् भिक्षुर्न चिन्तयेद्, यतो बहुसावद्यो गृहिवासो निरवद्यवृत्त्यर्थं च तत्त्यागोऽतः कथं स श्रेयान् ? । स्वार्थं कृतपाकादिगृहिभ्य एव पिण्डादि ग्राह्यमिति भावः । एवं च याञ्चापरीषहः सोढव्यः श्रीबलदेवर्षिवत् । यथा
वसुदेवस्य रोहिण्यां जातः पुत्रो हलायुधः । । रूपेण ससुरं विश्वं यो जिग्ये चित्रकारिणा ॥१॥ द्वारिकादाह-दाशाहवियोगादिनिमित्ततः । भेजे परमवैराग्यं पुरोगः सत्त्वशालिनाम् ।।२।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org