SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ द्वितीयं परीषहाध्ययनम् यूयं मुनीश्वरास्त्रातुं मामपीदृशमर्हथ । गिरिगर्तानपेक्षं हि वारिदानां प्रवर्षणम् ॥२३॥ विधायाप्यनुतप्यन्ते ते योग्या इति साधवः । नैर्ग्रन्थं धर्ममादिक्षन् दुष्कर्मगहनानलम् ||२४|| ग्रीष्मे च्छत्रमिवैषोऽपि तापभीस्तमुपाददे । प्रवृत्तिं च निवृत्तिं च धीराः कर्तुमलं यतः ||२५|| स्मारितोऽहमदः पापं दिवसे यत्र केनचित् । नूनं तत्र न भोक्ष्यामीत्याददेऽसावभिग्रहम् ||२६|| कार्या मे सर्वथा क्षान्तिर्निश्चिकायेति चेतसा । पूर्वावस्कन्दिते ग्रामे तस्थौ तत्रैव शुद्धधीः ||२७| स एवासौ महादम्भी धौरेयः कलुषात्मनाम् । इति लोको महात्मानं प्रत्यहं तमतर्जयत् ||२८|| धेनु-भ्रूणादिघात्येषोऽदर्शनीयमुखः सताम् । वचोभिरिति लोष्टैश्च श्वेवाहन्यत सोऽनिशम् ॥ २९॥ एवं स्वकृतपापस्य स्मार्यमाणो महामनाः । दृढप्रहारी नाभुङ्क्त दृढसन्धः क्वचिद् दिने ||३०|| मर्माविधैः स दुर्वाक्यैर्लेष्टुभिः पांशुवृष्टिभिः । हन्यमानो जनैः शान्तस्वान्त एवं व्यभावयत् ||३१|| "पुरा विनिर्ममे यादृगात्मन् ! कर्म शुभाशुभम् । तस्यावश्यं हि भोक्तव्यं फलं क्षेत्रोप्तबीजवत् ॥३२॥ निरनुक्रोशमाक्रोशान् ददतोऽमी जना मयि । उपकारकृतः कर्मनिर्जरा कथमन्यथा ? ||३३|| प्रहारा लेष्टु- यष्टीनां यथैतेषां प्रमोददाः । तथा ममापि हि प्रीत्यै कर्मध्वंसविधायिनः ||३४|| म निर्भर्त्सनं कृत्वा सन्त्वमी सुखिनो जनाः । हेम्नोऽग्नेरिव चैतस्मात् शुद्धिरस्तु ममाधुना ॥ ३५॥ आक्रोशो वागधिक्षेपो बन्धनं हननं मृतिः । श्रेयोऽर्थिनाऽखिलं सह्यं श्रेयो हि बहुविघ्नकम् ॥३६॥ For Private & Personal Use Only Jain Education International 2010_02 ९७ www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy