________________
द्वितीयं परीषहाध्ययनम्
भिक्षुर्धर्मं यतिधर्मरूपं विचिन्तयेत् । यतः क्षमामूल एव मुनिधर्मो यदुक्तम्— " धर्मस्य दया मूलं न चाक्षमावान् दयां समाधत्ते । तस्माद् यः क्षान्तिपरः स साधयत्युत्तमं धर्मम्" ॥१॥ इति घातकं प्रति कोपोऽपि नोचित इति भावः ॥ २६ ॥
अमुमेवार्थं प्रकारेणाह—
समणं संजयं दंतं हणिज्जा कोइ कत्थइ |
नत्थि जीवस्स नासो त्ति एवं पेहेज्ज संजए ॥२७॥
व्याख्या- - श्रमणं तपस्विनं संयतं पृथ्व्याद्यारम्भनिवृत्तं दान्तमिन्द्रियदमेन हन्यात् astra: कुत्रापि ग्रामादौ । तत्र किं कुर्यात् ? 'नास्ति जीवस्य ज्ञानस्वरूपस्य नाश:, किन्तु देहस्यैव' इत्येवं प्रेक्षेत चिन्तयेत् संयत इत्याक्रोशं वधं च सहते दृढप्रहारिवत् । यथा—
पुरे कुत्रापि धिग्जातिरासीत् कोऽपि सुदुर्द्धरः । पापधीद्यूत - चौर्यादौ स कुकर्मण्यवर्तत ॥१॥ ततो निर्वासितो राज्ञा पुरात् पल्लीं विवेश सः । व्याधहस्तमिव प्राप्तः श्येनस्तत्रोत्कटोऽभवत् ॥२॥
अनुरूप इति स्तेनपतिरेनमपुत्रयत् । तस्मिन् मृतेऽथ तत्पट्टे स्थापितोऽसौ महाबलः ||३||
सुदृढं प्रहरत्येष बाल-वृद्धाविवेचनम् । अतो दृढप्रहारीति चौरैस्तन्नाम निर्ममे ||४|| अन्येद्युस्तस्करोपेतो ग्राममागात् कुशस्थलम् । रौद्रो लुटयितुं नानारूपधारियमोपमः ॥५॥ पितृवेश्मेव दारिविपदां तत्र च द्विजः । देवशर्माऽन ऽन्यदा सोऽथ क्षीरेयीं याचितोऽर्भकैः ॥६॥ कथञ्चिदपि याचित्वाऽमीलयत् तदुपस्करम् । पत्न्याऽपीपचदास्वस्थो नद्यां स्नातुं ययौ ततः ॥७॥ तावत् तदोकसि क्रूरा निपेतुस्तस्कराः समे । दैवं दुर्बलघाताय लोकोक्तिः कथमन्यथा ? ॥८॥
Jain Education International 2010_02
९५
For Private & Personal Use Only
www.jainelibrary.org