________________
उत्तरज्झयणाणि-१ कोपावेशाविशिष्टत्वात् समानौ द्वावपि स्फुटम् । पश्यन्ती तस्य विप्रस्य न किञ्चित् कृतवत्यहम् ।।८।। क्षान्त्या तपस्विता भद्र ! मृदुवाण्येति सा सुधीः ।
साधूचुषीति विद्वांसं तमुपाशीशमद् मुनिम् ॥९॥ उक्तमर्थं निगमयति-'तम्हे त्ति' तस्माद् भिक्षुर्न संज्वलेदिति ॥२४॥ उपदेशमाह
सोच्चा णं फरुसा भासा दारुणा गामकंटया ।
तुसिणीओ उवेहिज्जा न ताओ मणसी करे ॥२५॥ व्याख्या-श्रुत्वा 'णमिति वाक्यालङ्कारे' परुषा कर्कशभाषा दारुणा रौद्रा ग्राम इन्द्रियग्रामस्तस्य कण्टका इव दुःखोत्पादकत्वेन ग्रामकण्टकाः प्रतिकूलशब्दादयः । यत:
"मुहुत्तदुक्खाओ हवंति कंटया अयोमया ते वि तओ सुउद्धरा । वाया दुरुत्ताणि दुरुद्धराणि वेराणुबंधीणि महाभयाणि" ॥१॥ किं कुर्यादित्याह—तूष्णीको न कोपात् प्रतिपरुषभाषी; "जो सहइ हु गामकंटए अक्कोस-पहार-तज्जणाउ य ॥"
भयभैरवसद्दसप्पहासे समसुहदुक्खसहे य जे स भिक्खू" ॥१॥ इत्यागमं परिभावयन्नुपेक्षेतावधीरयेत् परुषा भाषा न ताश्च मनसि कुर्यात् तद्भाषिणि द्वेषाकरणेनेति द्वादशमः परीषहः ॥२५॥ आक्रोशकारी तावता अतुष्यन् वधमपि विदध्यादिति तत्परीषहमाह
हओ न संजले भिक्खू मणं पि न पओसए ।
तितिक्खं परमं नच्चा भिक्खू धम्मं विचिंतए ॥२६॥ व्याख्या–हतो दण्डादिभिस्ताडितो न संज्वलेद् मनसा, किं पुनः कायतः प्रत्याहननादिना, वचनतः प्रत्याक्रोशदानादिना ? भिक्षुः । अत एव मनोऽपि न प्रदूषयेत् कोपाद् न प्रदुष्टं कुर्वीत, किन्तु तितिक्षां क्षमां परमां धर्मसाधनं प्रति प्रकर्षवती ज्ञात्वा
१. मुहूर्तदुःखा भवन्ति कण्टका अयोमयास्तेऽपि तत: सूद्धराः
वाचा दुरुक्तानि दुरुद्धराणि वैरानुबन्धीनि महाभयानि ॥१॥ २. यः सहते खलु ग्रामकण्टकान् आक्रोश-प्रहार-तर्जनाश्च ।
भयभैरवशब्दसप्रहासान् समसुखदुःखसहश्च यः स भिक्षुः ॥१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org