________________
द्वितीयं परीषहाध्ययनम्
कलत्रं चित्रमालाऽपि समये सुषुवे सुतम् । हिरण्यगर्भनामानं नृपः सोऽप्याहतोऽजनि ।।१०८॥ चर्या-नैषेधिकी-शय्याऽऽख्यास्त्रयोऽपि परीषहाः ।
यथैतैर्यतिभिः सोढास्तथा सह्या महात्मभिः ॥१०९।। इति चर्यादिपरीषहत्रये पुरन्दर-कीर्तिधर-सुकोशलमुनिकथा ।।२३।। शय्यास्थितं मुनि तथाविधः कश्चिदागत्याक्रोशेदिति तत्परीषहमाह
अक्कोसिज्ज परो भिक्खुं न तेसिं पइ संजले ।
सरिसो होइ बालाणं तम्हा भिक्खू न संजले ॥२४॥ व्याख्या-आक्रोशेत् तिरस्कुर्यात् परोऽन्यो धर्मबाह्यो भिक्षु यथा 'धिग् मुण्ड ! किमिह दृष्टोऽसि'इति । न 'तेसिं' ति सुब्ब्यत्ययान्न तस्मै प्रति संज्वले निर्यातनार्थमाक्रोशदानेनाग्निवद् न दीप्येत । भावयेच्च-'आक्रोशेन मतिमता तत्त्वार्थालोचने मतिः कार्या, यदि सत्यं कः कोपः स्यादनृतं किं नु कोपेन ?' इति । यतः सदृशो भवति बालानाम्अज्ञानां तथा संज्वलन्निति । तथाविधश्रमणवत् । यथा
साधुरेकः क्वचिद् ग्रामे अतीवोग्रं स तपस्यति । उपास्यते देवतया भक्त्या तद्गुणरक्तया ॥१॥ तयोच्यतार्य ! मे कार्यमादेश्यमथ चान्यदा । भिक्षाऽर्थं भ्रमतस्तस्यामिलदेको द्विजब्रुवः ॥२॥ स तेन साधुना सार्धं दुर्वच:पूर्वकं बली । मुष्टामुष्टि दण्डादण्डि योद्धमारब्धवान् भृशम् ।।३।। भूमौ स पातयामास क्षुत्क्षामाङ्गं तकं मुनिम् । केचित् कृपालवो लोकास्तस्मात् पापादमोचयन् ॥४॥ निश्यगाद् देवता नन्तुं तूष्णीकोऽस्थाद् मुनिस्तदा । सा प्राह भगवन् ! को मेऽपराधो दुर्मना यतः ।।५।। मुनिराख्यत् त्वया दुष्टे ! स दुरात्मा न वारितः । ममापकारकारी च किं ब्रुवेऽहं त्वया सह ? ॥६॥ साऽवादीद् न तदा लेभे विशेषो युध्यमानयोः । द्वयोः कोऽप्येष चारित्री धिग्जातिर्वायमुच्चकैः ॥७॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org