________________
उत्तरज्झयणाणि-१ अथ तस्यां व्यतीतायां सम्पूरणनियमाविमौ । प्रतस्थाते प्रतिपुरं समितौ पारणाकृते ॥१४॥ विकीर्णवदना व्याघ्री क्षुधा गिरितटीस्थिता । तौ ददर्श लिलेखोर्वी नखैर्नादं चकार च ॥९५।। ससार दैवयोगेन तावत् कीर्तिधरोऽग्रतः । वधोद्यतां तु तां व्याघ्री वीक्षामासे सुकोशलः ॥९६।। व्युत्सृष्टतनुरुधुक्तो ज्ञानी स्वात्मार्थसाधने । शुक्लमध्यास्त स ध्यानं सा व्याघ्री तावदापतत् ।।९७।। तीक्ष्णदाढा करालास्या त्वरोत्प्लुत्य नभःस्थलात् । वज्राग्निरिव दुष्प्रेक्ष्या भूम्यां मुनिमपातयत् ॥९८॥ मांसानि तस्य साऽश्नन्ती मोटयन्त्यस्थिपञ्जरम् । त्रोटयन्ती नसाजालमुपदुद्राव तं भृशम् ।।९९।। अहो ! संसारवैरस्यं यज्जनन्यपि खादति । मांसमिष्टस्य पुत्रस्य निःसङ्गस्य निरागसः ॥१००॥ खराश्मशकलाकीर्णभूतले विनिपातितः । सोऽप्रकम्पतया सेहे सम्यक् शय्यापरीषहम् ॥१०१।। तस्यापि तदवस्थस्य सद्ध्यानध्वस्तकर्मणः । जीवितान्ते समुत्पेदे केवलं सिद्धिरप्यभूत् ॥१०२॥ तस्या अपि तमश्नन्त्या जातिस्मृतिरजायत । जात्यकाञ्चनसम्बद्धपुत्रदन्तावलोकनात् ॥१०३।। पश्चात्तापं परं कृत्वाऽनशनं दिवसत्रयीम् । धृत्वा साऽजनि सौधर्मे कल्पे देवाप्सरस्तया ॥१०४|| देवास्तत्र शिवप्राप्तिमहिमानं प्रचक्रिरे । इतः कीर्तिधरस्यापि तत्रैवासन्नवर्तिनः ॥१०५।। तथोपसर्गमालोक्य शुक्लध्यानाधिरोहिणः । ज्ञानं समुदयं प्राप केवलं तत्त्ववेदिनः ॥१०६।। एकेनागमनेनैव यात्राद्वयमजायत । केवलज्ञानमहिमाकारिणां धुसदां तदा ॥१०७।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org