SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ ९० त्वद्वंशे पुत्र ! राजानः समजायन्त ये पुरा । ते त्यक्तवसुधाभोगाः समुपाददिरे व्रतम् ॥६६॥ मा ग्रहीत् तन्मुनेर्दीक्षां धर्मं श्रुत्वा विरागवान् । तनुजन्मेति ते माता चकार चरितं त्वदः ||६७॥ सुकोशलोऽथ तच्छ्रुत्वा पितृवन्दनलालसः । गत्वा वने मुनिं नत्वा बभाणादः कृताञ्जलिः ॥६८॥ दीप्ते निजगृहे पुत्रभाण्डानि जनकः स्वयम् । निर्गच्छति समादाय हितं तेषां विचिन्तयन् ॥६९॥ तात ! मोहाग्निना दीप्ते मां मुक्त्वा भवमन्दिरे । यन्निष्क्रान्तोऽसि तन्नूनं युक्तं प्रियपितुर्न ते ॥ ७०|| तस्मादथापि तस्माद् मे तात ! निष्क्रामतः स्वयम् । निर्विलम्बं कृपां कृत्वा देहि हस्तावलम्बनम् ॥७१॥ मुनिः कीर्त्तिधरोऽवादीदिक्ष्वाकूणां महीभुजाम् । अध्वैवायं व्रतादानं यद् बलिष्ठे वयस्यपि ॥ ७२ ॥ तयोर्वार्त्तयतोरेवं महिषी चित्रमालिका | गुरुभारा समभ्येत्य तं पादपतिताऽवदत् ॥७३॥ निराधारां महीं मां च परित्यज्यैकहेलया । आदित्ससे तपो यत् त्वं नैक्ष्वाकूणां हि सौचिती ॥७४॥ आख्यत् सुकोशलोऽथैवं भद्रे ! ते भविता सुतः । मयाऽभिषिक्तोऽसौ राज्ये ततः किं चिन्तया तव ? ॥७५॥ प्रतिपालनमेतर्हि ममापि सुतजन्मनः । कातर्यद्योतकं दीक्षाव्यवसायवतः प्रिये ! ||७६ || उत्तरज्झयणाणि - १ महामात्ये समारोप्य राज्यभारं सुकोशलः । संमान्य सकलं लोकं तातपार्श्वेऽभवद् व्रती ॥७७॥ आचक्रन्दाखिलो लोको मूर्च्छा प्रापाथ तत्प्रसूः । कथञ्चिल्लब्धचैतन्या विललापेति निर्भरम् ॥७८॥ किमर्थं स धृतः कुक्षौ किमर्थं जनितोऽथवा ? | किमर्थं वा पुषिं नीतो ही ! दुरात्मा मया सुत: ? ॥७९॥ For Private & Personal Use Only Jain Education International 2010_02 www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy