________________
द्वितीयं परीषहाध्ययनम्
तपस्तपे तीव्रतमं तु तप्यते च्छन्नाश्रये तिष्ठति यस्तपात्यये । हेमन्तकालेऽपि निरम्बरो वने ध्यानं स संसाधयितुं प्रवृत्तवान् ॥५२।। सुकोशलोऽपि कौशल्यपदं कल्पद्रुकन्दवत् । वर्द्धमानः क्रमात् प्राज्यराज्यधूर्धवलोऽभवत् ॥५३॥ सहदेवी प्रसूस्तस्य व्रती मैष भवत्विति । नित्यं धर्मश्रुतेर्योगाद् दूरतस्तमवर्तयत् ॥५४॥ अन्यदा सा गवाक्षस्थाऽऽयान्तं कीर्तिधरं मुनिम् । मध्येपुरं समालोक्य मलक्लिन्नमधोमुखम् ॥५५।। रुरोष धिगमुं बाल्ये यो मुक्त्वा निजमङ्गजम् । व्रतीभूय पुनः पुत्रमभ्येत्यादित्सुरत्र यत् ॥५६॥ कृतान्तवदनाकारानाकार्य निजपूरुषान् । आदिदेशार्द्धचन्द्रं भोः ! दत्त्वा निष्कास्यतामयम् ॥५७।। अन्येऽपि लिङ्गिनो यत्र धर्माख्यानकृतादराः । निर्धाट्यन्तामिमे सर्वे मत्पुत्रानर्थदायिनः ॥५८।। तत् प्रतिश्रुत्य तैर्गत्वा स चान्येऽपि व्रतस्थिताः । उपाद्रूयन्त ते सर्वे निर्यातेति वदावदैः ॥५९।। धात्री सुकोशलस्याथ तं वृत्तं ज्ञातपूर्विणी । गुणव्यूह स्मरन्त्यस्य विषादं विवशाऽकरोत् ॥६०॥ रुरोद मुक्तकण्ठं च तां तदाऽऽह सुकोशलः । कि क्वचित् परिभूताऽसि हेतुना केन रोदिषि ? ॥६१।। राज्ये मेऽम्ब ! न वै कश्चित् केनापि परिपीड्यते । त्वत्पराभवकर्तारमहं नेता यमास्पदम् ॥६२।। वसन्ततिलकाभिख्या साऽथ प्रोवाच कारणम् । विगणय्य त्वदम्बाया भयं शृणु वदाम्यहम् ॥६३॥ यो बाल्ये न्यस्य राज्ये त्वां पिता ते व्रतमाददे । सोऽद्यात्र प्रविशन्नुच्चस्त्वज्जनन्या स्वपूरुषैः ॥६४॥ चौरवत् प्रतिहत्याशु हठाद् निष्कासितः पुरात् । तेन रोदिमि धात्रीश ! दुर्बलानां ह्यदो बलम् ॥६५॥ युग्मम्
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org